________________
00000000000000000000woooooooooooo0000000000
स्वात्मानं च परं च निर्मलयति स्तुत्यर्चनावन्दनैः । मन्त्रिश्रेणिकसूरिवाऽऽर्द्धकसुतं मोहान्धकारस्थितं
दीपः पुष्यति कस्य वाऽपि न मुदं श्रेयःश्रियामास्पदम् ॥ २ ॥ प्रसिद्धा कथा ॥ तथा स्वयंभूरमणसमुद्रे भव्यजीवमत्स्या जिनप्रतिमाऽऽकारमत्स्यान् दृष्टा जातिस्मृतिमन्तोऽनशनमाराध्य वर्गे गच्छन्ति ॥ तथा शय्यंभवसूरिरपि जिनप्रतिमादर्शनात् प्रतिबुद्धः । सिजंभवं गणहरं जिणपडिमादसणेण पडिबुद्धं । मणगपिअरं दसकालिअस्स निज्जूहगं वन्दे ॥ ३ ॥ प्रसिद्धा कथा ॥
॥ इति जिनबिम्बोपदेशश्चतुर्थः ॥
पित्तलसुवन्नरूप्पयरयणेहिं चन्दकंतमाईहिं । जो कारवेइ जिणवरपडिमं सो पावए मुक्खम् ॥ १॥
यथा-श्रीभीमसाधुना श्रीअर्बुदे स्वकारितप्रासादमूलनायकप्रतिमा ५१अङ्गुलमयी निर्मलबहुवारगालितपित्तलरसैश्विकीर्षिता; तावता प्रह्लादनपुरीय मं० धनाकेन विज्ञप्तम्-भो भीम ! मद्भागो मध्ये दातव्यः, तेन निषि
(१३५)