________________
20000000000000000000000000000000000000000000000000
लनपूर्व परिधाप्य हजं यावत्साई गत्वा तत्र त्रिलक्षतोरणं काराप्य पश्चात्संप्रेषिता ढिल्ली प्राप्ता संमुखागतमोजदीनसुरत्राणेन पृष्टा हे अम्ब ! सुखेनाऽऽसीद् यात्रा। तयोक्तम्-स्वधर्मपुत्र श्रीवस्तुपालप्रसादात् । तदनु सुरत्राणेन बान्धवता प्रतिपन्ना । वस्तुपालो ढिल्ल्यां स्वयं संमुखागमनपूर्व महोत्सवेनाऽऽकारितः । खाईराज्ये दीयमाने मन्त्रिणा नागपुरासन्नमम्माणिखाणिप्रतिमात्रयं मार्गितम् । ततस्तुष्टेन खाणिः समर्पिता । ततः स्वस्थानमागत्य मम्माणीयश्रीशत्रुञ्जययुगादिप्रतिमापुण्डरीकप्रतिमातेजलपुरपार्श्वप्रतिमात्रयं प्रतिष्ठाप्य पूज्यं कृतम् । वस्तुपालमन्त्रिणाऽपि सपादलक्षप्रतिमा रत्नस्वर्णरूप्यपित्तलारासणीयपाषाणमम्माणीमय्यः कारिताः प्रतिष्ठापिताः खहस्तप्रपूजिताः स्वकारितपञ्चसहस्रजिनप्रासादेषु संस्थापिताः।
इति द्वितीयो बिम्बोपदेशः ॥
पूइज्जइ जिणपडिमा निच्चं भव्वेहिं जेहिं कारविआ । वड्ढेइ तेसिं पुन्नं कलंतरेणं व धणनिवहो ॥१॥
यैः स्वकारितजिनप्रतिमा स्वहस्तेन पूज्यते, जिनालयस्थापनेनापरपार्थात् पूजाप्यते, तेषां पुण्यं प्रतिदिनं प्रवईते, व्याजदत्तधनवत् , तथा जिनार्चाकर्तुः कुजात्यादिकं विरूपं न स्यात् ।
(१३३)