SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ yooooooooooooooooooooooooooooooooooooooooooooo श्रीनन्दिरत्नशिष्येण रत्नमन्दिरसाधुना । धर्मोपदेशमधुना प्रीण्यन्ते प्राणिनोऽधुना ॥ ६ ॥ तद्यथावसुधाभरणं पुरुषः पुरुषाभरणं प्रधानतरलक्ष्मीः । लक्ष्म्याभरणं दानं दानाभरणं सुपात्रं च ॥ १॥ मेदिनीमण्डनं पुरुषा एवं प्रकीर्तिताः परमार्थतः पुराणचतुरनरैः । यतो जगति ये ये भव्या भावास्ते सर्वे सत्पुरुषावतारसम्भवाः,' यथा-पुरुषसिंहे श्रीतीर्थङ्करे विहरमाण इयं भूमिर्मणिसुवर्णरजतमयप्राकारत्रयचतु रिसमवसरणसुरकृतनवहेमकमलजानुदप्नसुरभिपुष्पप्रकराऽशोकवृक्षसर्वकालषडतुवनस्पतीकुसुमफलसम्भारभूपिता, तथा मारिदुर्भिक्षडमरेतिवैररोगाद्युपप्लवरहिता सम्पनीपद्यते, तथा चक्रवर्तिवासुदेवादिशलाकापुरुषे राज्यं कुर्वति सति नानाविधनगरस्थापनामहाधवलगृहवनवापीकूपतटाकप्राकारपरिखादीर्घिकाप्रपामठप्रासादसुन्दरा चौरधाटीकुललुण्टाकपेटकाद्युत्कटदुष्टकष्टपरम्पराविरहिता महीमनोहरा च स्यात् । तथाचपुरिसेहिं रइअतित्थं नहु पुरिसा हुन्ति तित्थरइआ वि। इत्तो पवरं तित्थं पुरिसं पभणन्ति सव्वन्नू ॥२॥ पुरिसाउ होइ तित्थं न हुन्ति तित्थाउ तिहुअणे पुरिसा।सलिलाउ हवइ धन्नं नो नीरं होइ धन्नाउ ॥३॥ एवं तीर्थान्यपि पुरुषप्रवर्तितान्येव, यतः श्रीशत्रुञ्जयतीर्थस्याऽतीतानागतवर्त्तमानानेकसिद्धानां - 00000000000000000००००००००००००००००००००००००००००००००००००
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy