________________
३४२]
श्री सिद्धचक्र विधान
.
. श्री मङ्गलाष्टक . श्रीमनम्रसुरासुरेन्द्रमुकुटप्रद्योतरत्नप्रभाः, भास्वत्पादनखेन्दवः प्रनचनाम्भोधधींदवः स्थायिनः। ये सर्वे जिनसिद्धसूर्यमुगतास्ते घाठकाः साधवः, स्तुत्या योगिजनैश्च पञ्चगुरवः कुर्वन्तु ते मङ्गलं ॥१॥ सम्यग्दर्शनबोधवृत्तममलं रत्नक यं पावनं, मुक्ति श्रीनगराधिनाथजिनपत्युक्तोपवर्गप्रदः। धर्मः सूक्तिमूधा च चैत्यमखियं चैत्यालयं श्रयालयं, प्रोक्तं च त्रिविधं चतुर्विधमसी कुर्वन्तु ते मङ्गलं ॥२॥ ये सर्वोषधऋद्धयः सुतपसो वृद्धिंगता पञ्चये, ये चाष्टांगमहानिमित्तकुशला येष्टाविधाश्चारणाः। पञ्चज्ञानधरास्त्रयोपि बलिनो ये बुद्धिवद्धीश्वराः सप्तैते सकलार्चिता गणभृतः कुर्वन्तु ते मङ्गलं ॥३॥ कैलाश वृषभस्य निर्वृतिमही वीरस्य पावापुरे, चम्पायां वासुपूज्यसज्जिनपतेः सम्मेदशैलेहतां। शेषाणामपि चोर्जयन्तशिखरे नेमीश्वररयाहतो, निर्वाणावनयः प्रसिद्धविभवा कुर्वन्तु ते मङ्गलं ॥४॥ ज्योतिय॑न्तरभावनामरगृहे मेरौ कुलाद्रौ स्थिता, जम्बूशाल्मलिचैत्यशाखिषु तथा वक्षाररूप्याद्रिषु। इष्वाकारगिरो च कुण्डलनशरे द्वीपे च नन्दीश्वरे, शैले ये मानुषोत्तरे जिनगृहाः कुर्वन्तु ते मङ्गलं ॥५॥ यो गर्भावरोत्सवो भगवतां जन्माभिषेकोत्सवो, यो जातः परनिक्रमेण विभवो य केवलज्ञानभाक् ।