SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ (४३) संसार विपिनेऽन्धवं दुर्वाराऽपायकारणं । दारुणं च स्वरुपेणाऽऽशुभानुबन्धसंयुतम् ॥४८॥ , सेवेत विधिना धर्म-मित्रानन्ध इवेक्षकान् । वैद्यान् रुग्णो निःस्व ईशान् भीतच नायकं यथा ॥ ४९॥ " नाऽतोऽन्यत्सुन्दरतर-मित्यन्तः प्रीतियुगू भवेत् । आज्ञायाः काङ्क्षको ग्राही, अविराद्धा च कारकः ॥ ५०॥ प्रतिपन्नगुणार्हः स्यादाचारे तु गृहोचिते । शुद्धं कुर्यादनुष्ठानं, मनो वचश्च शुद्धिकृत् ॥ ५१ ॥ उपघातकरं नह्याद्, गर्ह्य क्लिष्टमनायतिं । संरम्भं चिन्तयेन्नाऽन्य-पीडां जल्पेन्न दीनताम् ॥५२॥ न स्याद् धृष्टो न सेवेताऽ-भिनिवेशं शुभोदयं । मनः प्रवर्त्तयेन्मिथ्या, न भाषेत न पैशुनम् ॥ ५३ ॥ परुषं नाऽनिवद्ध ं च हितमितवागू वधोज्झितः । न गृहणीयाददत्तं स्वं, नेक्षेत परयोषितः ॥ ५४ ॥ अनर्थदण्डविरतः, शुभकायप्रवर्त्तकः । दाने भोगे परिवारे, निधाने लाभमानतः || ५५ ॥ अबाधकः कुटुम्बस्य, गुणकृत्तस्य शक्तितः । भावेन निर्भमः साईचेद्, धमों ज्ञातिपालने ॥५६॥ सर्वे जीवा पृथक् बन्ध-कारणं ममतांसां । समाचारेषु सर्वेषु, स्यात् स्मृत्या संयतो गृही ॥ ५७॥ अमुकोsहं कुलं मेऽदः, शिष्योऽनुष्याश्रितो वृषं । अमुं विराधना माऽस्या-रम्भोऽस्यामाऽस्तु मे कदा ॥ ५८ ॥ वर्धतामत्र सारोऽयं, धर्म आत्मोपमो मम । धर्मो हितोऽपरं तुच्छं, विशेषणाऽविधिग्रहात् ॥ ५९ ॥ एवमाह त्रिलोकीशः, करुणाकर आप्तराड् । स्वयंसंबुद्धो भगवान् अर्हस्रिलोकबान्धवः ।।६.०॥
SR No.010532
Book TitlePanchsutra Varttikam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherAgamoddharak Granthmala
Publication Year1971
Total Pages193
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy