________________
सिडयन्त्र स्थापनम् सिद्धौ निवासमनुगं परमात्म-गम्यं,
हान्यादि-भाव-रहितं भव-वीत-कायम् । रेवापगा-वर-सरो यमुनोद्भवानां,
नोरैर्यजे कलशगवर-सिद्ध-चक्रम् ॥३॥ ॐ ह्रीं क्षायिकसम्यक्त्व-अनन्तज्ञान-अनन्तदर्शन-अनन्तवीर्यअगुरुलघुत्व - अवगाहनत्व-सूक्ष्मत्व - निराबाधत्वगुणसम्पन्नमिद्ध चक्राधिपतये सिद्धपरमेष्ठिने जन्ममृत्युविनाशनाय जलं निर्वपा० आनन्द-कन्द-जनकं घन कर्म-मुक्तं,
सम्यक्त्व-शर्म-गरिमं जननाति-वीतम् । सौरभ्य-वासित-भुवं हरि-चन्दनानां,
गन्धर्यजे परिमलवर-सिद्ध-चक्रम् ॥४॥ ॐ ह्रीं सिद्धचक्राधिपतये सिद्धपरमेष्ठिने संसारताप-विनाशनाय चन्दनं निवंपामीति स्वाहा। सर्वावगाहन-गुणं सुसमाधि-निष्ठ,
सिद्धस्वरूप-निपुण कमल विशालम् । सौगन्ध्य-शालि-वनशालि वराक्षतानां,
पुजबजे शशि-निभर्वर-सिद्ध-चक्रम् ॥५॥ ॐ ह्रीं सिद्धचक्राधिपतये सिद्धपमेष्ठिने अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा ।
नित्यं स्वदेह परिमाणमनादिसंजं,