________________
५०
श्रीमूलसंघ-सुदृशां सुकृतकहेतु
जैनेन्द्र-यज्ञ-विधिरेष मयाऽभ्यधायि।।८।। स्वस्ति त्रिलोक-गुरवे जिन-पुङ्गवाय
स्वस्ति स्वभाव-महिमोदय-सुस्थिताय । स्वस्ति प्रकाश-सहजोजित-दृङ्मयाय
स्वस्ति प्रसन्न-ललिताद्भुत-वैभवाय ॥६॥ स्वस्त्युच्छल द्विमल-बोध-सुधा-प्लवाय
स्वस्ति स्वभाव-परभाव-विभासकाय । स्वस्ति त्रिलोकविततक-चिदुद्गमाय
स्वस्ति त्रिकाल-सकलायत-विस्तृताय ॥१०॥ द्रव्यस्य शुद्धिमधिगम्य यथानुरूपं
भावस्य शुद्धिमधिकामधिगन्तुकामः । आलम्बनानि विविधान्यवलम्ब्य वल्गन्
भूतार्थ-यज्ञ-पुरुपस्य करोमि यजम् ।।११।। अर्हत्पुराण पुरुषोत्तम पावनानि
वस्तून्यनूनमखिलान्ययमेक एव । अस्मिज्वलद्विमल - केवल-बोधवह्नौ । पुण्यं समग्रमहमेकमना जुहोमि ॥१२॥ [इति पुष्पाञ्जलि क्षिपामि]