________________
इत्थं यथा तव विभूतिरभूज्जिनेन्द्र
धर्मोपदेशन-विधौ न तथा परस्य । यादृक्प्रभा दिनकृतः प्रहतान्धकारा
__तादृक्कुतो ग्रह-गणस्य विकासिनोऽपि ॥३७॥ श्च्योतन्मदाविल-विलोल-कपोल-मूल
मत्त-भ्रमद्भ्रमर-नाद-विवृद्ध-कोपम् । ऐरावताभमिभमुद्धतमापतन्तं
दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ।।३८। भिन्नेभ-कुम्भ-गलदुज्ज्वल-शोणिताक्त
मुक्ता-फल-प्रकर-भूषित-भूमि-भागः । बद्ध-क्रमः क्रम-गतं हरिणाधिपोप
नाकामति क्रम-युगाचल-संश्रितं ते ॥३६॥ कल्पान्त-काल-पवनोद्धत-वह्नि-कल्पं
दावानलं ज्वलितमुज्ज्वलमुत्स्फुलिङ्गम् । विश्वं जिघत्सुमिव संमुखमापतन्तं
त्वन्नाम-कीर्तन-जलं शमयत्यशेषम् ।।४०।। रक्तक्षणं समद-कोकिल-कण्ठ-नीलं
क्रोधोद्धतं फणिनमुत्फणमापतन्तम् । आक्रामति क्रम-युगेन निरस्त-शङ्क
स्त्वन्नाम-नाग-दमनी हृदि यस्य पुंसः ॥४१॥ वल्गत्तुरङ्ग-गज-गजित-भीमनाद