________________
१५८
शान्तिकरं गण-शान्तिमभीप्सुः षोडस-तीर्थंकरं प्रणमामि ।।२।। दिव्य-तरुः सुर-पुष्प-सुवृष्टिर्दुन्दुभिरासन-योजन घोषो । आतपवारण-चामर-युग्मे यस्य विभाति च मण्डलतेजः ॥३।। तं जगदर्चित-शान्ति-जिनेन्द्र शान्तिकरं शिरसा प्रणमामि । सर्वगणाय तु यच्छनु शान्ति महमरं पठते परमां च ॥४॥
येऽभ्यचिता मुकुट-कुण्डल-हार-रत्नैः । शक्रादिभिः सुरगणैः स्तुत-पाद-पद्माः । ते मे जिना: प्रवर-वंश-जगत्प्रदीपा
स्तीर्थङ्कराः सतत-शान्तिकरा भवन्तु ।।५।। संपूजकानां प्रतिपालकानां यतीन्द्र-सामान्य-तपोधनानाम् । देशस्य राष्ट्रस्य पुरस्य राज्ञः करोतु शान्ति भगवाजिनेन्द्रः ।।६।। क्षेमं सर्व-प्रजानां प्रभवतु बलवान्धामिको भूमिपालः । काले काले च सम्यग्वर्षतु मघवा व्याधयो यान्तु नाशम् । दुर्भिक्ष चौर-मारी क्षणमपि जगतां मास्म भूज्जीवलोके । जैनेन्द्र धर्मचक्र प्रभवतु सततं सर्व-सौख्य-प्रदायि ॥७॥ प्रध्वस्त - घाति - कर्माण: केवलज्ञान - भास्कराः । कुर्वन्तु जगतां शान्ति वृषभाद्या जिनेश्वराः ॥८॥
इष्ट-प्रार्थना
प्रथमं करणं चरणं द्रव्यं नमः शास्त्राभ्यासो जिनपति-नुतिः सङ्गतिः सर्वदायें: .
सवृत्तानां गुण-गण-कथा दोष-वादे च मौनम् । सर्वस्यापि प्रिय - हित-वचो भावना चात्मतत्त्वे । सम्पद्यन्तां मम भव-भवे यावदेतेऽपवर्गः ।।