________________
Es..
भक्तामरस्तोत्रम् स्वर्गापवर्गगममार्गविमागणेष्टः, सद्धर्मतत्त्वकथनैकपटुस्रिलोक्या। दिव्यध्वनिर्भवति ते विशदार्थसर्वेभाषाखभावपरिणाम: गुणैः प्रयोज्यः ॥३५॥ उन्निद्रहेमनवपंकजपुंजकांती, पर्युलसन्नखमयूखशिखाभिरामौ। पादौ पदानि तव यत्र जिनेंद्र! धत्तः पद्मानि तत्र विबुधाः परिकल्पयंति ॥३६॥ इत्थं यथा तव विभूतिरभून्निनेंद्र, धर्मोपदेशनविधौ न तथा परस्यः। यादृक्प्रभा दिनकृतः प्रहतांधकारा, तादृक् कुतो ग्रहगणस्य विकाशिनोपि ॥३७॥ श्च्योतन्मदाविलविलोलकपोलमूल