________________
२४]
श्री जिन सहस्रनामस्तोत्रम्
दर्शनः । अणोरणीयाननणुर्गुरुराद्यो गरीयसां ॥ ९ ॥ सदायोगः सदाभोगः सदातृप्तः सदाशिवः । सदागतिः सदासौख्यः सदाविद्यः सदोदयः ॥ १० ॥ सुघोषः सुमुखः सौम्यः सुखदः सुहितः सुहृत् । सुगुप्तो गुशिभृद्गोप्ता लोकाध्यक्षो दमीश्वरः ॥११॥
इति असंस्कृता दिशतम् ॥ ७ ॥ अर्थ |
वृहन्वृहस्पतिर्वाग्मी वाचस्पतिरुदारधीः । मनीषी धिषणो धीमांञ्छेमुषीशो गिरांपतिः ॥ १ ॥ नैकरूपो नयस्तुंगो नैकात्मा नैकधर्मकृत् । अविज्ञेयोऽप्रतयत्मा कृतज्ञः कृतलक्षणः