________________
१६
: श्रीजिनसहस्रनामस्तोत्रम् चिकः ॥२॥ वेदांगो वेदविद्वद्योजातरूपो विदांवरः । वेदवेद्यः स्वयंवेद्यो विवेदो वदतांवरः ॥३॥ अनादिनिधनो व्यक्तो व्यक्तवाग्व्यक्तशासनः । युगादिकृयुगाधारो युगादिर्जगदादिजः॥४॥ अतींद्रोऽतींद्रियो धींद्रो महेंद्रोऽतींद्रियार्थदृक् । अनिद्रियोऽहमिंद्रायॊ महेंद्रमहितो महान् ॥५॥ उद्भवः कारणं कर्ता पारगो भवतारकः । अग्राह्यो गहनं गुह्यं पराओं परमेश्वरः॥६॥अनंतद्धिरमेयर्द्धिरचिंत्यर्द्धिः समग्रधीः। प्रायः प्राग्रहरोऽभ्यप्रयः प्रत्यग्रोग्रयोग्रिमोग्रजः॥७॥ महातपा:महा.