________________
३४२
जैन पूजा पाठ संग्रह
महावीराष्टकस्तोत्रम् [फस्थिर भागधन्द]
शिखरिणी यदीये चैतन्ये मुकुर इव भावाश्चिदचितः
समं भान्ति धौव्य-व्यय-जनि-लसन्तोऽन्तरहिताः। जगत्साक्षी मार्ग-प्रकटन-परो भानुरिव यो
महावीरस्वामी नयन-पथ-गामी भवतु मे ॥ १ ॥ अतानं यच्चनुः कमल-युगलं स्पन्द-रहितं
जनान्कोपापायं प्रकटयति वाभ्यन्तरमपि । स्फुटं मूर्तिर्यस्य प्रशमितमयी वातिविमला
महावीर स्वामी नयन-पथ-गामी भवतु मे ॥२॥ नमन्नाकेन्द्राली-मुकुट-मणि-मा-जाल-जटिलं
लसत्पादाम्भोज-यमिह यदीयं तनुभृताम् । भवज्ज्वाला-शान्त्यै प्रभवति जलं वा स्मृतमपि
महावीर स्वामी नयन-पथ-गामी भवतु मे ॥ ३ ॥ यदर्चा-भावेन प्रमुदित-मना दईर इह ___ झणादातीत्स्वर्गी गुण-गण-समृद्धः सुख-निधिः । लभन्ते सहकाः शिव-सुख-समाजं किमु तदा
महावीर स्वामी नयन-पथ-गामी भवतु मे ॥ ४ ॥ कनत्स्वर्णाभासोऽप्यपगत-ततुर्ज्ञान-निवहो
विचित्रात्माप्येको नृपति-वर-सिद्धार्थ-तनयः । अजन्मापि श्रीमान् विगत-भव-गोद्भुत-गतिः
महावीर स्वामी नयन-पथ-गामी भवतु मे ॥ ५ ॥