________________
जैन पूजा पाठ संग्रह
त्वं सर्वेशः सकृप इति च त्वामुपेतोऽस्मि भक्त्या
यत्कर्तव्यं तदिह विषये देव एव प्रमाणम् ॥११॥ प्रापद्देवं तव नुति-पढेजीवकेनोपदिष्टैः
पापाचारी मरण-समये सारमेयोऽपि सौख्यम् । कः सन्देहो यदुपलभते वासव-श्री-प्रभुत्वं
जल्पञ्जाप्यमणिभिरमलैस्त्वन्नमस्कार-चक्रम् ॥१२॥ शुद्ध ज्ञाने शुचिनि चरिते सत्यपि त्वय्यनीचा
भक्तिनोंचेदनवधि-सुखावञ्चिका कुचिकेयम् । शक्योद्घाटं भवति हि कथं मुक्ति-कामस्य पुंसो
मुक्ति-द्वारं परिदृढ-महामोह-मुद्रा-कवाटम् ॥१३॥ प्रच्छन्नः खल्वयमधमयैरन्धकारैः समन्तात्
पन्था मुक्तेः स्थपुटित-पदः क्वेश-गत रंगाधैः । तत्कस्तेन' व्रजति सुखतो देव तत्त्वावभासी
यद्यग्रेऽग्रे न भवति भवद्भारती-रत्न-दीपः ॥१४॥ आत्म-ज्योति निधिरनवधिष्टुगनन्द-हेतुः ।
कर्म-क्षोणी-पटल-पिहितोयोऽनवाप्यः परेषाम् । हस्ते कुर्वन्त्यनतिचिरतस्तं भवद्भक्तिभाजः
स्तोत्रर्बन्ध-प्रकृति-परुषोद्दाम-धात्री-सनित्रः॥१॥ प्रत्युत्पन्ना नय-हिमगिरेरायता चामृताब्धेः
या देव त्वत्पद-कमलयोः संगता भक्ति-गगा। चेतस्तस्या मम रुजि-वशादालत क्षालितांहः
कल्माष यद्भवति किमियं देव सन्देह-भूमिः ॥१६॥