________________
अद्याष्टकस्तोत्रम् अद्य मे सफलं जन्म नेत्रे च सफले मम । वामद्राक्षं यतो देव हेतुमक्षयसंपदः ॥१॥ अद्य संसार-गंभीर-पारावारः, सुदुस्तरः । सुतरोऽयं क्षणेनैव जिनेन्द्र तव दर्शनात् ॥२॥ अद्य मे क्षालितं गानं नेत्रे च विमले कृते । स्नातोऽहं धर्म-तीर्थेषु जिनेन्द्र तव दर्शनात् ॥३॥ अद्य मे सफलं जन्म प्रशस्तं सर्वमंगलम् । 'संसारार्णव-तीर्णोऽहं जिनेन्द्र तव दर्शनात् ॥४॥ अद्य कर्माष्टक-ज्वालं विधूतं सकपायकम् । दुर्गते विनिवृत्तोऽहं जिनेन्द्र तव दर्शनात् ॥ ५ ॥ अद्य सौम्या ग्रहाः सर्वे शुभाश्चैकादश-स्थिताः । नष्टानि विन-जालानि जिनेन्द्र तव दर्शनात् ॥६॥ अद्य नष्टो महावन्धः कर्मणां दुःखदायकः । सुख-सङ्ग समापनो जिनेन्द्र तव दर्शनात् ॥७॥ अद्य कर्माष्टकं नष्टं दुःखोत्पादन-कारकम् । सुखाम्भोधि-निमग्नोऽहं जिनेन्द्र तव दर्शनात् ।।८।। अद्य मिथ्यान्धकारस्य हन्ता ज्ञान-दिवाकरः। उदितो मच्छरीरेऽस्मिन् जिनेन्द्रतव दर्शनाव ॥६ अद्याहं सुकृती भूतो निर्धूताशेषकल्मषः । भुवन-त्रय-पूज्योऽहं जिनेन्द्र तव दर्शनात् ॥१०॥ अद्याष्टकं.. पठेद्यस्तु गुणानन्दित-मानसः । तम्य सर्वार्थसंसिद्धिर्जिनेन्द्र तव दर्शनात् ॥११॥