________________
बेन पूजा पाठ सग्रह
परे केवलिनः।।३८॥ पृथक्त्वैकत्ववितर्क सूक्ष्मक्रियाप्रतिपातिव्युपरतक्रियानिवर्तीनि ॥३६ ॥ ज्येकयोग-काययोगायोगानाम्॥४०॥ एकाश्रये सवितर्क-वीचारे पूर्वे ॥४१॥ अवीचारं द्वितीयम्॥४२॥ वितर्कः श्रुतम्।।४३॥ वीचारोऽर्थ-व्यञ्जनयोग-संक्रान्तिः ॥४४॥ सम्यग्दृष्टि-श्रावक-विरतानन्तवियोजकदर्शनमोहक्षपकोपशमकोपशान्त-मोहक्षपक- क्षीणमोह-जिनाः क्रमशोऽसंख्येयगुण-निर्जराः ॥ ४५ ॥ पुलाक-वकुश-कुशीलनिर्ग्रन्थ-स्नातका निर्ग्रन्था॥४६॥ संयम-श्रुत-प्रतिसेवना-तीर्थलिङ्ग-लेश्योपपाद-स्थान-विकल्पतः साध्याः ॥४७|| ___ इति तत्त्वार्थाधिगमे मोक्षशाने नवमोऽध्याय ||
मोहक्षयाज्ज्ञान-दर्शनावरणान्तराय-नयाच केवलम्॥१॥ वन्धहेत्वभाव-निर्जराभ्यां कृत्स्न-कर्म-विप्रमोक्षो मोक्षः ॥२॥ औपशमिकादि-भव्यत्वानां च ॥३।। अन्यत्र केवलसम्यक्त्वज्ञान-दर्शन-सिद्धत्वेभ्यः ॥४॥ तदनन्तरमूचं गच्छत्या लोकान्तात् ॥ ५॥ पूर्वप्रयोगादसङ्गत्वाद् बन्धच्छेदात्तथागतिपरिणामाचा॥६॥ आविद्धकुलालचक्रवद्व्यपगतलेपालावुवदेरण्डपीजवदमिशिखावच्च ||७|| धर्मास्तिकायाभावात् ॥८॥ क्षेत्रकाल-गति-लिङ्ग-तीर्थ-चारित्र-प्रत्येकबुद्ध -बोधित-ज्ञानावगाहनान्तर-मंख्याल्पवहुत्वतः साध्याः ॥६॥
इति तत्वार्याधिगमे मोक्षशास्त्रे दशमोऽध्याय ॥१०॥ कोटीशत द्वादश चैव कोटयो लनाण्यशीतित्यधिकानि चैव । पञ्चाशदष्टौ च सहस्रसख्यामेतत् श्रुतं पञ्चपद नमामि ॥१॥