SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १५० कर्मकाण्डक्रमावली पूज्याः पूर्वादिकाष्ठासु भूतकोटिभिरावृताः ॥१४३२॥ डों कुमुदाय नमः, इत्यादिमन्त्राः । हेरुक त्रिपुरघ्नं च बहन्याख्यं यमजिह्वकम् । कालं करालिनं षष्ठमेकजिह्व तथाष्टमम् ॥१४३३॥ तथैव पूजयेदिक्षु लोकपालाननुक्रमात् । बलिभिः कुसुमैर्दीपैः संतुष्टान्परिभावयेत् ॥१४३४॥ ततस्तुणेषु वन्येषु वंशस्थानेऽप्यनुक्रमात् । पञ्च क्षित्यादितत्त्वानि सद्योजातादिभिर्यजेत् ॥१४३५॥ सदाशिवपदव्यापि मण्डपं धामशङ्करम् । पातालशक्तिसंयुक्तं तत्त्वदृष्टयावलोकयेत् ॥१४३६॥ दिव्यन्तरिक्षभूमिस्थानविघ्नानुत्सार्य पूर्ववत् । प्रविशेत्पश्चिमे द्वारे शेषद्वाराणि घयेत् ॥१४३७॥ प्रदक्षिणक्रमाद्गत्वा निविष्टो वेदिदक्षिणे । उत्तराभिमुखः कुर्यातशुद्धिं यथा पुराः ॥१४३८॥ अन्तर्यागं विशेषा मन्त्रद्रव्यादिशोधनम् । कुर्वीत स्वात्मनः पूजां पञ्चगव्यं च पूर्ववत् ।।१४३६॥ साधारं सकलमस्मिन्विन्यसेत्तदनन्तरम् । शेषाय शिवतत्त्वाय तत्त्वत्रयमनुक्रमात् ॥१४४०॥ ललाटपट्टपादान्तं शिवविद्यात्मकं परम् । रुद्रनारायणब्रह्मदैवतैनिजशम्बरैः ॥१४४१॥ ॐ ई मूर्तीस्तदोश्वरांस्तत्र पूर्ववद्विनिवेशयेत् ।
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy