________________
सोमशम्भुरचिता । सकृन्मन्त्रं समुच्चार्य शरीरं विन्यसेबुधः । अङ्गानि विन्यसेत्पश्चादोङ्कारादिनमोन्तकम ॥११०१। बहिरष्टदलं पद्म ध्यात्वास्मिन्नस्त्रमर्चयेत् । मण्डले चतुरश्रेवा रजोराजीवराजिते ॥११०२॥ प्रणवासनमारूढं दशबाहुं महाबलम् । पञ्चास्यं दशकणं च प्रतिवक्त्रं त्रिलोचनम् ॥११०३॥ दंष्ट्राकरालमत्युग्रं महानादं सुदुर्जयम् । लेलिहान दुराधर्ष सूर्यकोव्ययुतप्रभम् ॥११०४॥ इत्थं पोशुपतं शस्त्रं विघ्नसंघातमर्दनम् । कर्णिकायां समासीनं पूजयेत्परमेश्वरम् ॥११०५॥ बिन्दुनादविमुक्तेन विदध्यान्मारणादिकम् । युक्तेन बिन्दुनादाभ्यां भुक्तिमुक्ती च साधयेत् ॥११०६॥ प्रणवं तैजसे पत्रे श्लींकारं शाङ्करे दले। नैऋते तु तृतीयं तु चतुर्थ वायुगोचरे ॥११०७॥ हूंकारं चैव नेत्रेषु हूंफडिन्द्रदले स्थितम् । इत्थं विन्यस्य संपूज्य विधिना होममाचरेत् ॥११०८॥ नवात्माहुतिभिस्तत्र नवभिः संस्कृते ऽनले । त्रिमधुनाखराजस्य यजेदष्टाधिकं शतम् ॥११०६॥ बलिं दवा विधानेन कलशं वाभि(रि)पूरितम् । . पूजयेलक्षणोपेतं . पूर्ववत्प्रणवासने ॥१११०॥ पूजयेदनमन्त्रेण शतेनाष्टाधिकेन तम् । अनेन सापयेच्छिष्यं ध्यात्वा रूपं यथोदितम् ॥११११॥