________________
सोमशम्भुरचिता।
१०७
अथत्रितत्त्वदीक्षाविधिः अथ त्रितत्त्वदीक्षायाः स्वरूपमभिधीयते । यागालयगतं कर्म कुर्वीतात्रापि पूर्ववत् ॥१००५॥
आत्मकुम्भशिवज्योतिः शिष्यदेहेष्वक्रमात् त्रितत्त्वन्यासमारभ्य शिवाज्ञान्तां क्रियां स्मरेत् ॥१००६।। शिष्यं प्रवेश्य होमान्तं मन्त्राणां दीपनादिकम् । विधाय पूर्ववत्सर्वं कृत्वा सूत्रावलम्बनम् ॥१००७॥ शक्तिं शिरसि शिष्यस्य संपूज्यादाय मुद्रया विधिना योजयेत्सूत्रे यथा हूंशक्तये नमः ॥१००८॥ ततोऽवगुण्ठनं तस्यास्तर्पणं च विधानतः कुर्यात्षडध्वविन्यासं यथा पूर्वमुदाहृतम् ॥१००६॥ शिष्यं प्रोक्षितमाताड्य संप्रविश्य नियोज्य च ममाकृष्य विधानेन शक्तिसूत्रे नियोजयेत् ॥१०१०॥ ओ हाँ आत्मने नमः। विधाय मूर्तिविन्यासं कृत्वा तर्पणादिकम् । पूर्वोक्तेन विधानेन शिवतत्त्वं विलोकयेत् ॥१०११॥ डोहूं शिवतत्त्वाय नमः । संताड्य हूं फडन्तेन गृहीत्वा हृत्पुटेन च अनेनैव नमोऽन्तेन शिरःसूत्रे नियोजयेत् ॥१.१२॥ शिवतत्त्वं समभ्यर्च्य कवचेनावगुण्ठयेत् ।