________________
* मोक्षशास्त्रम् *
-
हिंसानतस्तेयाब्रह्मपरिग्रहेभ्या विरतिव्रतम् ॥१॥ देशसर्वतोऽणुमहती ॥२॥ तत्स्थैर्यार्थ भावनाः पञ्च पञ्च ॥३॥ वाङ मनोगुप्तोर्यादाननिक्षेपणसमित्यालोकितपानभोजनानि पञ्च ॥ ४ ॥ क्रोधलोभभोरुत्वहास्यप्रत्याख्यानान्यनुवोचिभाषण च पञ्च ॥ ५ ॥ शन्यागारविमोचितावासपरोपरोधाकरणभक्ष्यशुद्धिसधर्माऽविसंवादा पञ्च ॥६॥ स्त्रीरागकथाश्रवणतन्मोहराङ्गनिरीक्षणपूर्वरतानुस्मरणवृष्येष्टरसस्वशरीरसंस्कारत्यागाः पञ्च ॥ ७ ॥ मनोज्ञामनोज्ञ न्द्रियविषयरागद्वेषवर्जनानि पञ्च ॥ ८ ॥ हिंसादिविहामुत्रापायावद्यदर्श नम् ॥ ६ ॥ दुःखमेव वा ॥ १० ॥ मैत्रीप्रमोदकारुण्यमाध्यस्थानि च सत्वगुणाधिकक्लिश्यमाना विनयेषु ॥ ११ ॥ जगत्कायस्वभावो वा संवेगवैराग्यार्थम् ॥ १२ ॥ प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा ॥ १३ ॥ असदभिवानमनतम् ॥ १४ ॥ अदत्तादानं स्तेयम् ॥ १५ ॥ मैथुनमब्रह्म ॥ १६ ॥ मूर्छा परिग्रहः ॥ १७ ॥ निःशल्यो व्रती ॥ १८ ॥ अगायनगारश्च ॥ १६ ॥ अणुव्रतोऽगारी ॥ २० ॥ दिग्देशानर्थदण्डविरतिसामायिकप्रोषधोपवासोपभोगपरिभोगपरिमा णातिथिसंविभागवतसम्पन्नश्च ॥ २१॥ मारणान्तिकी सल्लेखनां जोषिता ॥ २२ ॥ शङ्काकांक्षावचिकित्साऽन्यदृष्टिप्रशंसासंस्तवाः सम्यग्दृष्ट रतीवाराः ॥२३॥ व्रतशोलेषु पञ्च पञ्च यथाक्रमम् ॥२४॥ वन्धवधच्छे दातिभारारोपणानपाननिरोधा ॥ २५ ॥ मिथ्योपदेशरहोभ्याख्यानकूटलेखक्रियान्यासापहारसाकारमन्त्रभेदाः ॥ २६ ॥ म्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीनाधिकमानोन्मानप्रतिरू पकव्यवहाराः ॥२७॥ परविवाहकरणेत्वरिकापरिगृहोताऽपरिगृहीता गमनानङ्गक्रीडाकामतीवाभिनिवेशाः ॥ २८ ॥ क्षेत्रवास्तुहिरण्य