________________
६८) श्रीजैनकुमारसम्भवाख्यंमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः २
ताः ताश्चता धुसदा (क्विप् । ५ । १ । १४८ । इ. सु. सदधातोः क्षिप् । उः पदान्तेऽनूत् । २।१।११८ । इ. सू. दिवावकारस्य उ. दिविसीदन्तीति घुसदः) वध्वश्च ताभिनितानि चारुणि मनोहराणि चामराणि यस्य स तं तथा विशारदेश्चतुरैः आदरात् (पुंनाम्नि घ. । ५ । ३ । १३० ।इ. सू. आइ पूर्वक दृधातोः नामिनो गुणोऽक्डिति । ४ । ३ । १ । इ. सू. गुणः ।) वन्दितौ पादौ यस्य सः तं नमस्कृतचरणम् ॥ त्रिभिर्विशेषकम् ॥ ४४-४५-४६ ॥
कनीनिकादंभमधुव्रतस्पृशा, शां शतविभ्रदिवाम्बुजसजम् । ततत्रिलोकीपतिमेनमश्चितु-रयादुपातिष्ठत निर्जरेश्वरः ।। ४७ ॥
(या०) कनीनिकेति ॥ ततोऽनन्तरं निर्जराणां (प्रात्यवपरिनिरादयो गतकान्तऋष्टालानक्रान्ताधर्थाः प्रथमाद्यन्तैः । ३ । १ । ४७ । इ. सू. कान्ताद्यर्थे पश्चमीतत्पुरुषः जराया. निष्क्रान्ताः निर्जरा.) देवानामीश्वरः (स्थेशमासपिसकसोवर' । ५। २ । ८१ । इ. सू. ई. धातोर्वर प्रत्ययः) स्वामी सुरेश्वरः एनं त्रयाणां लोकानां समाहारः त्रिलोकी त्रिलोक्याः पतिस्तं श्रीयुगादीश मञ्चितुं पूजयितुं स्यात् वेगात् उपातिष्ठत (वा लीप्सायाम् । ३ । ३ । ६१ । इ. स. उपपूर्वक स्थाधातो. कतरि आत्मनेपदम् ) आगच्छत । किं लक्षणः इन्द्रः कनीनिकादंभमधुनतस्पृशां कनीनिकानां ताराणां दंभ मिपरतेन मधुनतान् मधुव्रतयन्तीति मधुव्रता (कर्मणोऽण् । ५ । १ । ७२ । इ. सू. व्रतधातोः अण प्रत्ययः इत्युक्त कृता । ३ । १ । ४९ । इ. सू. तत्पुरुषः।) भ्रमरान् स्पृशन्तीति तासां दृशां नेत्राणां शतरम्वुजानां कमलानां नजं मालां बिभ्रदिव धरन्निव । नयनानां कमलोपमा ढोयते अतः सहस्रलोचनत्वात् मूर्तिमती कमलमालां बिभ्राणो भगवन्त पूजयितुमिव हरि. समेत इति भावः ॥ ४७॥
शिर: स्वमिन्दिदरयन् विनम्य तत्-पदाजयुग्मे लसदंगुलीदले। इति स्फुरशक्तिरसोमिनिर्मलं, शचीपतिः स्तोत्रवचः प्रचक्रमे ॥४८॥