________________
२४) श्रीजैनकुमारसम्भवाख्यमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः १
शंसरुः । ५ । २ । ३३ । इ. सू. उ) पातुमिच्छतीति पिपासतीति पिपासुः पातुमिच्छु रित्यर्थः ॥ ४४ ॥ उपधुरः प्रौढ मधः कटी च, न्यूढान्तराभूत्तलिनं विलग्नम् । किं चिन्मयेऽस्मिन्ननु योजकानां, त्रिलोकसंस्थाननिदर्शनाय ॥४५॥
(व्या०) उपरीति ॥ अस्मिन् भगवति इति पदं सर्वत्र योन्यते उपरि उरो वक्षः स्थलं प्रौढं अन्यत् अध• कटी च व्यूढा विस्तीर्णा । अन्तराअव्ययः शब्द' मध्ये विलग्नमुदरं तलिनं कृशमभूत् । किमर्थ चिन्मय ज्ञानमयेऽस्मिन् भगवति अनुयोजकानां (णक तृचौ । ५ । १ । ४८ । इ सू. कर्तरि सर्व. स्मात् धातोर्णकः) पृष्छकानां त्रिलोकसंस्थाननिदर्शनाय त्रिलोकस्य संस्थानमाकारस्तस्यनिदर्शनाय कोऽर्थः ज्ञानमयो भगवान् सर्वलक्षणोपेतत्वात् जडानां लोकानां वेत्रासमोधरतादित्यादि त्रैलोक्यसंस्थानमदर्शयत् तथापि ते लोका न ज्ञातवन्तः पश्चात्तेषां स्वीयमेव रूपं दर्शयामास भगवानिति तात्पर्यार्थः ॥४५॥ न्यूढेऽस्य वक्षस्यवसत्सदा श्री-वत्सः किमु छअधिया प्रवेष्टम्। . रुद्धः परं बोधिमटेन मध्य, मयूषुषासीद्धहिरङ्ग एक ॥ ४६॥
(व्या) न्यूढ इति ॥ श्रीवत्सो लाञ्छनं कंदर्पो वा अस्य भावतो व्यूढे विशाले वक्षसि हृदये किमु अधिया कपटबुद्धया प्रवेष्टुं सदाजस्र मवसत् । परं केवलं बोधिभटेन सम्यक् तत्वपरिज्ञानरूपसुभटेन रुद्ध सन् बहिरङ्ग एवासीत् । किं कृतवता बोधिभटेन मध्यम-तरा अध्यषुषा उषितेन 'वसं निवासे, अधिपूर्वो वस् अध्युवास इति अध्युषिवान् तेन अन्यूषुषा तत्र बसुकानौ तद्वदिति सूत्रेण वसुप्रत्यये ततो द्वित्वे पस्य संप्रसारणे उत्वेऽधिना सह यः इडागमे । पत्वे अध्यषिवस् इति जातं ततस्तृतीयेकवचने टाप्रत्यये 'क्वस उस्' इति सूत्रेण पस्य अधिकृते अध्यूषुषा इति सिद्धम् ॥ ४६॥ - यत्र त्रिलोकी निहितात्मभारा, शेते सुखं पत्रिणि पत्रिणीव । सोऽमन्मते तद्भुज एवं शेषः, कोऽन्यो जराजिलगतेविशेषः ॥४७॥'