________________
श्रीजनकुमारसम्भवास्यमहाकाव्यम् टीकासमलंकृतम् ॥ सर्ग. १ (२१
अण ज्ञेयः) वासयति स्म किं कृत्वा बाल्यं बालभावं-अपास्य परित्यज्य किं. लक्षणं वाल्यं (वर्णदृढादिभ्यष्टयण च वा । ७।१ । ५९ । इ. सू. बाल्य चापत्य शब्दसिद्धि) चापल्यकृत् (कि५ । ५। १ । १४८ । इ. सू. नाम्नः परात् धातो. कि प्रत्यय हस्वस्य तः पिकृति । ४ । ४ । ११३ । इ. सू. इस धातो. पित्कृति तः अप्रयोगीत । १।१ । ३७ । इ. सू. क्वि५. इत्संज्ञा तेन चापल्यकृत् सिद्धम् ) चपलस्य भावं करोतीति चापल्यकृत् । तदपि यौबनमपि अमुष्य भगवतो धुम्नं द्रव्यं बलं वा तस्य विशेषदानात् साधो. मत्पुरुषस्य औचिती औचित्यगुणं प्रकाशयामास । 'उपकारकारके प्रत्युपकारः क्रियते इति. सता लक्षण मिति भाव ॥ ३८॥ . अथ भगवतो रूपवर्णनमाह । 'मानवा मौलितो पर्या, देवा श्चरणतः पुनः' ।
इति न्याये सत्यपि भगवतो मानवत्वेऽपि तीर्थकराणां देवत्वमेव कथ्यते ॥ . तस्थाननेन्दापरि स्थितेऽपि, पादा-जयोः श्रीरभवन हीना। धत्तां स एव प्रभुता मुदीते, द्रुह्यन्ति यसिन मिथोयोऽपि ॥३९॥
(०या०) तस्येति ।। तस्य भगवत आननेन्दी आननं मुखमेव इन्दुश्चन्द्र स्तस्मिन् मुखचन्द्रे उपरि स्थितेऽपि पादाजयो. पादावन-अब्जे कमले तयोः चरणकमलयो' श्रीलक्ष्मी होना न्यूना न अभवत् । स एव पुमान् प्रभुतां: (भावे स्वतल । ७ । १ । ५५ । इ. सू. भावेऽर्थे तल् प्रत्ययः ।) स्वामित्वधत्तां यस्मिन् पुरुषे उदीते सति मिथः परस्परं अस्योऽपि वैरिणोऽपि न द्रुह्यन्ति , द्रोहं न कुर्वन्तीत्यर्थः मुखचन्द्रश्चरणकमले एषां यो विरोध स भगवता भग्न इति भावः ॥ ३९ ॥ दत्तनमद्भिः ककुभामधीशै, धान्द्रैः किरीटै निजराजचिन्हैः । पढ़यां प्रभोरङ्गुलयो दशापि, कान्ता अभूष्यन्त मिपानखानाम् ॥४०॥
(व्या०) दत्तरिति ॥ प्रभोः श्रीपभदेवस्य पद्धयां (न्तपाद नासिका । २।११-१०१ । ई. सू. पाढत्यवापद् ) चरणाभ्यां दशापि अगुलय