________________
३५४) श्रीजेनकुमारसम्भवाच्यं महाकाव्यम् टीफसमलंकृतम् ॥ सर्गः ११ खप्रत्ययः खित्यनत्र्ययाऽरुषोर्मोऽन्तो ह्रस्वश्च । ३-२-१११ । इ. सू. मोऽन्तः । हृदयवल्लमा असि । च अन्यत् श्रुताधेयधियां श्रुतानामाधेया धीर्येषां ते तेषां बहुश्रुतानां ऊइक्षमं ऊहस्य विचारस्य क्षमस्तं ईदृशं स्वप्नसमूहं स्वमानां समूहस्तं अपश्य ॥ २८ ॥
अतः परं किं तव भाग्यमीडे, यद्विश्वनेत्रा निशि लम्भितासि । स्वप्नार्थनिश्चायिकया स्ववाचा, रहः सुधापानसुखानि देवि ॥ २९ ॥
( व्या० ) अतः इति । हे देवि तव अतः परं किं भाग्यं ईडे स्तुवे । विश्वनेत्रा विश्वस्य नेता तेन जगन्नाथेन निशि रात्रौ स्वप्नार्थनिश्वायिकया स्वप्ना - नामर्थस्य निश्चायिका निश्चयकारिणी तथा वाचा र एकान्ते सुधापानसुखानि सुधाया अमृतस्य पानं तस्य सुखानि तानि लम्भिता प्रापितासि ॥ २९ ॥ न पाययन् गोरसमर्थिनीं त्वां धत्ते । चित्ते रजनीमधीशः । क्षुधातुरं भोजयतां न दोषा, दोषापि यस्मादियमर्हदाज्ञा ॥ ३० ॥
"
(०या०) नेति । अर्थिर्नी त्वा गोरसं गो रसस्तं गोरसं पाययन् पाययतोति पाययन् ईश श्री स्वामी रजनीमपि रात्रिमपि चित्ते न घत्ते स्म । यस्मात्कारणात् अर्हदाज्ञा अर्हतामाज्ञा श्रीसर्वाज्ञा इयं वर्तते । इयमिति किम् । दोषापि रात्रावपि अत्र दोषाशब्दोऽययोज्ञेयस्तेन विभक्तिलोप | क्षुधातुरं क्षुधया आतुरस्तं बुभुक्षितं भोजयतां भोजयन्तीति तेषां दोषा न स्यु' अस्मिन् श्लोके पूर्वार्धे भगवता सुमङ्गलायै यो गोरस: पायित इत्यत्र गोरसशब्देन सरस्वतीरसो ज्ञेय' तेन उत्तरार्धे दोषा अपि क्षुधातुरं भोजयतां न दोषाः । इति भोजनसंबन्धिनी या अर्हदाज्ञा लिखिता तत्रापि तत्वाधुपदेशविषयकमेव भोजनं ज्ञेयं न वनपानादि चतुर्विधं भोजनम् ॥ ३० ॥ कदाचिदुद्गच्छति पश्चिमायां, सूरः सुमेरुः परिवर्तते वा । सीमानमत्येति कदापि वार्धिः, शैत्यं समास्कन्दति वाश्रयाः ॥३१ ॥ सर्वसहत्वं वसुधाऽवधूय श्वभ्रातिथित्वं भजते कदाचित् । रम्मोरु द+मोरगगारुडं ते वचो विपर्यस्यति न प्रियस्य ॥ ३२ ॥