________________
जैनकुमारसम्भवाख्यं महाव्यम् टीकासमलंकृतम् ॥ सर्गः ३ (१०१
हृल्लेखास्तेषु । ‘हृदयस्य हृत्.लासलेखांण्ये' ३-२-९४ । इ. सू. हृत् आदेशः) उत्कंठायुक्तेषु लेखेषु देवेषु यदन्तरस्था (स्थापनात्रः कः | ५-१-१४२ । इ. सू., अन्तरपूर्वक स्थाधातोः कप्रत्यय इडेतू पुसि चातोल्लुक् इ. सू. स्थाधातोराकार लोपः) यस्य मुहूर्तस्य - अन्तरस्थाः अन्तरालस्थाः कालस्य लेशाः काललेशा' अवत्सरायन्त वर्षवदाचरन्ति स्म | वर्षसदृशाजाता इति भावः ॥ ३७ ॥
वैवाहिके कर्मणि विश्वभर्तुर्यदादिदेश त्रिदशानुभुक्षाः । बुभुक्षिताह्वानसमानमेत दमानि तैः प्रागपि तन्मनोभिः ॥ ३८ ॥
-
(०या०) वैवाहिके इति ॥ ऋभुक्षा इन्द्रः विश्वभर्तुः स्वामिनो वैवाहिके कर्मणि त्रिदशान् देवान् यत् कार्यमादिदेश आदिष्टवान् । तैः त्रिदशैः देवैः एतत् कार्ये बुभुक्षिताह्वानसमानं बुभुक्षितानां (तदस्य संजातं तारकादिम्य इत' । ७ । १ । १३८ । इ सू. बुभुक्षाशब्दात् इत प्रत्यय अवर्णे वर्णस्य । ७-४-६८ । इ. सू. बुभुक्षाशब्दस्य आकारस्यलोप बुभुक्षासंनाता एषामिति बुभुक्षिताः तेषाम् ।) क्षुधितानां आह्वानस्य समान सदृशममानि वुभुक्षाक्रान्तस्याकारणसदृशं मन्यते । किं विशिष्टैस्तै प्रागपि तन्मनोभि तस्मिन् मनो येषां ते तैः अग्रेऽपि तचित्तै ॥ ३८ ॥
मनोभुवा कल्पनयैव जिष्णोस्तत्र क्षणादाविरभावि शच्या । तभाद्भुतं सा हृदये स्वभर्तुर्नित्यं वसन्ती खलु वेद सर्वम् ||३९||
( व्या० ) मनोभुवा इति ॥ शच्या इन्द्राण्या तत्र स्थाने जिष्णोः (भुजे ष्णुक् । ५ । २ । ३२ । इ. सू. जिधातो. ष्णुक् प्रत्यय. जयतीत्येवंशील. जिष्णुः तस्य ) इन्द्रस्य मनसि भवतीति मनोभू' ( किपू । ५- १ - १४८ । इ. सू. मनस् पूर्वक भूघातो किपू 1) स्तथा चित्तोत्पन्नया कल्पनाया एव क्षणात् तत्कालमेव आविरमावि प्रकटीबभूवे । तत् न अद्भूतं नाश्चर्यम् । सा शची स्वस्थ भर्ता स्वमर्ता तस्य स्वमर्तुः स्वस्वामिनो हृदये मनसि नित्यं वसन्ती खल