________________
३८२
गुणाप्टक
· · नव्या. पुरातनजना विबुधा परेच ॥
पृष्ट्वा समाहितधियो नितरा भवन्ति प्राज्ञ समर्थगुरुराजमह नमामि ।४। प्रश्नोत्तरं वितरता भवतामपूर्वाम् । शैली विलोक्य विवुधाश्चकिता. भवन्ति ।। तुप्टा स्तुवन्ति भवतोऽमित शास्त्रवोधम् । प्राज्ञ समर्थ गुरुराजमहं नमामि ।। दृष्ट्वा भवन्तमजक मदमानिवर्गः । सद्य स्वय भवति खल्वभिमानहीन ॥ श्रीमन्तमेव शरणी कुरुते विनीत.। प्राज्ञ समर्थगुरुराजमह नमामि ।६। उग्रं विहारमनिशं विधिवद् विधाय । धर्मोपदेशमनिश विधिवत्प्रदाय ।। भव्यान् करोति जिनमार्गरतान् सदैव । प्राज्ञ समर्थगुरुराजमहं नमामि ।७। सशुद्धदर्शनधर परमार्थ विज्ञम् । शीलाढयमात्मदमिनं गुणिन गुणज्ञम् ।। शान्तं प्रसन्नवदनं करुणावतारम् । प्राज्ञ समर्थगुरुराजमहं नमामि ।। भक्तघेवरचन्द्रेण, भृगेण ते पदाब्जयो । रचितं वीरपुत्रेण, श्रीसमर्थगुणाष्टकम् । विन्दुमात्रमिदसिन्धोर्भवदीय गुणाष्टकम् । य पठेच्छृणुयाद् वापि शिव स लभते ध्रुवम् ।।