________________
३३६
कल्याणमदिरस्तोत्रम्
भव्या व्रजन्ति तरसाऽप्यजरामरत्वम् ।२१॥ स्वामिन् ! सुदूरमवनम्य समुत्पतन्तो, मन्ये वदन्ति शुचय. सुरचामरोघाः । येऽस्मै नतिं विदधते मुनिपुगवाय, ते नूनमूर्ध्वगतय. खलु शुद्धभावा. ।२२। श्याम गभीरगिरमज्ज्वलहेमरत्नसिंहासनस्थमिह भव्यशिखण्डिनस्त्वाम् । आलोकयन्ति रभसेन नदन्तमच्चश्चामीकराद्रिशिरसीव नवाम्बुवाहम् ।२३। उद्गच्छता तव शितिद्युति मंडलेन, लुप्तच्छदच्छविरशोकतरर्वभूव । सान्निध्यतोऽपि यदि वा तव वीतराग !, नीरागता व्रजति को न सचेतनोऽपि ।२४। भो भो प्रमादमवधूय भजध्वमेनमागत्य निर्वृतिपुरी प्रति सार्थवाहम् । एतनिवेदयति देव । जगत्त्रयाय, मन्ये नदन्नभिनभ सुरदुन्दुभिस्ते ।२५॥ उद्योतितेपु भवता भवनेषु नाथ !, तारान्वितो विधुरयं विहताधिकार । मुक्ताकलापकलितोच्छ्वसितातपत्रव्याजात्त्रिाधा धृततनुर्बुवमभ्युपेतः ।२६। स्वेन प्रपूरितजगत्त्रयपिण्डितेन, कान्तिप्रतापयशसामिव सञ्चयेन ।