________________
३३०
भक्तामर स्तोत्र
पर्युल्लसन्नखमयूखशिखाऽभिरामौ । पादौ पदानि तव यत्र जिनेन्द्र | धत्तः, पद्मानि तत्र विबुधा. परिकल्पयन्ति ।३६। इत्थं यथा तव विभूतिरभूजिनेन्द्र ! धर्मोपदेशनविधौ न तथा परस्य । यादृक्प्रभा दिनकृत प्रहतान्धकारा, तादृक्कुतो ग्रहगणस्य विकाशिनोऽपि ।३७। श्च्योतन्मदाविलविलोलकपोलमलमत्तभ्रमभ्रमरनादविवृद्धकोपम् । ऐरावताभमिभमुद्धमापतन्त, दृष्ट्वा भय भवति नो भवदाश्रितानाम् ।३८॥ भिन्नेभकुम्भगलदुज्ज्वलशोणिताक्तमुक्ताफलप्रकरभूषितभूमिभाग. । वद्धक्रम क्रमगत हरिणाधिपोऽपि, नाकामति क्रमयुगाचलसश्रितं ते ।३९। कल्पान्तकालपवनोद्धतवह्निकल्प । दावानल ज्वलितमुज्ज्वलमुत्स्फुलिंगम् । विश्वं जिघत्सुमिव सम्मुखमापतन्तं, त्वन्नामकीर्तनजल शमयत्यशेषम् ।४०। रक्तक्षण समदकोकिलकण्ठनील, क्रोधोद्धत फणिनमुत्फणमापतन्तम् । आक्रामति क्रमयुगेन निरस्तगङ्कस्त्वन्नामनागदमनी हृदि यस्य पुस ।४१