________________
जैन सिद्धांतसंग्रह. । -
[ ३९
अद्य मे सफलं : जन्म नेत्रे च सफले मम । सामद्राक्षं यतो देव हेतुमक्षयसम्पदः ॥ १ ॥ अद्य संसारगम्भीरपारावारः सुदुस्तरः । : सुतरोऽयं क्षणेनैव मिनेन्द्र तव दर्शनात् ॥ १ ॥ अद्य मे क्षालितं गात्रं नेत्रे च विमले कृते । स्नातोऽहं धर्मतीर्थेषु जिनेन्द्र तव दर्शनात् ॥ ३ ॥ अद्य मे सफलं जन्म प्रशस्तं सर्वमङ्गलम् । संसारार्णवतीर्णोऽहं जिनेन्द्र तव दर्शनात् ॥ ४ ॥ अद्य कर्माष्टकज्वालं विधूतं सकषायकम् । दुर्गविनिवृत्तोऽहं जिनेन्द्र तव दर्शनात् ॥ १ ॥ अद्य सौम्या गृहाः सर्वे शुभाश्चैकादशस्थिताः । नष्टानि विन्नजालानि जिनेन्द्र तव दर्शनात् ॥ ६ ॥ अद्य नष्टो महाबन्धः कर्मणां दुःखदायकः । सुखसंगं समापन्नी जिनेन्द्र तव दर्शनात् । ७ ॥ अद्य कर्माष्टकं नेष्टं दुःखोत्पादनकारकम् । सुखाम्भोधिनिमग्नोऽहं जिनेन्द्र तव दर्शनात् ॥ ८ ॥ अद्य मिथ्यान्धकारस्य हन्ता ज्ञानदिवाकरः । उदितो मच्छरीरेऽस्मिन् मिनेन्द्र तव दर्शनात् ॥ ९ । अद्याहं सुकृती भूतो निर्धूताशेपकरमपः । भुवनत्रयपूज्योऽहं मिनेन्द्र तव दर्शनात् ॥ १० ॥ अद्याष्टकं पठेद्यस्तु गुणानन्दितमानसः । तस्य सर्वार्थसिद्धि जिनेन्द्र तव दर्शनात् ॥ ११ ॥ इति अद्याष्टकस्तोत्रं