________________
जनसिदांतसंग्रह। सकलवस्तुप्राहकं प्रमाण, प्रमीयते परिच्छिद्यते वस्तुतचं येन ज्ञानेन तत्प्रमाणम् । तद्वेषा सविकल्पेतरभेदात् । सविकल्प मानसं, तचतुर्विधम् । मतिश्रुतावधिमनःपर्ययरूपम्। निर्विकल्पं मनोरहित केवलज्ञानमिति प्रमाणस्य व्युत्पतिः । प्रमाणेन वस्तु संगृहीतार्थकांशो नयः श्रुतविकल्पो वा, ज्ञातुरभिप्रायो वा नयः,. नानास्व... भावेभ्यो व्यावृत्य एकास्मन्स्वमावे वस्तु नयति प्रांमोतीति.वा. नयः। स द्वेषा सविकल्पनिर्विकल्पमेदादिति नयस्य व्युत्पतिः। प्रमाणनययोनिक्षेप आरोपगं स नामस्थापनादिभेदेन चतुर्विध इति निक्षेपस्य व्युत्पत्तिः। द्रव्यमेवार्थः प्रयोननमस्येति द्रव्याथिकः1. शुद्धद्रव्यमेवार्थः प्रयोजनमस्येति शुद्धद्रव्यार्थिकः अशुबद्रव्यमेवार्थः प्रयोजनमस्येति अशुद्धद्रव्यार्थिक सामान्यगुणादयोऽन्वयरू. पेण द्रव्य व्यमिति द्रवति व्यवस्थापयतीत्यन्वयद्रव्यार्थिकः । स्वद्रव्यादिग्रहणमर्थः प्रयोजनमस्येति स्वद्रव्यादिग्राहकः, परद्रव्या. ग्रहणमर्थः। प्रयोजनमस्येति परद्रव्यादिग्राहकः, परमभावग्रहणमर्थः । प्रयोजनमस्येति परमभाव-राहकः ।।
इति द्रष्यायिकस्य व्युत्पत्ति । पर्याय एवार्यः प्रयोजनमस्येति पयोयार्थिकः । अनादिनित्य. पर्याय एवार्थ: प्रयोजनमस्येत्यनादिनित्यपर्यायार्थिकः । सादिनित्य पर्याय एवार्थः प्रयोजनमस्येति सादिनित्यपर्यायार्थिकः । शुद्धपर्याय एवार्थः प्रयोजनमस्येति शुद्धपयार्थिकः । अशुद्धपर्याय एवार्थः प्रयोजनमत्येत्यशुद्धपर्यायार्थिकः ।
इते पर्यायार्थिकस्य व्युत्पत्तिः । नियायते । २ भादिशब्देन द्रव्यमावो गृोते । ३ सामान्य जीवत्वादि गुणा ज्ञानादयः ।