________________
जैनसिद्धांतसंग्रह। [४०१ चतुरम्यवहार्याणां प्रत्याख्यानं सदेच्छाभिः ॥१०॥ पञ्चानां पापानामलंक्रियारम्भगन्धपुष्पाणाम् । सानाअननस्यानामुपवासे परिहृतिं कुर्यात् ॥१७॥ धर्मामृतं सतृष्णः श्रवणाभ्यां पिरतु पाययेद्वान्यान् । ज्ञानध्यानपरो.वा. भवतूपवसन्नतन्द्रालु ॥.१०८॥ चतुराहारविसर्जनमुपवासः मोषधः सद्भक्तिः। स प्रोषधोपवासा यदुपोष्यारम्भमाचरति ॥ १०९ ॥ ग्रहणविसर्गास्तरणान्यदृष्टमृष्टान्यनादरास्मरगे। योषधोपवासव्यतिलकनपञ्चकं तदिदम् ॥११॥ दान वयावृत्यं धर्माय तपोधनाय गुणनिधये। . अनपेक्षितोपचारोपक्रियमगृहाय विमवेन ॥११॥ व्यापत्तिव्यपनोदः पदयोः संवाहनं च गुणरागात् । वयावृत्त्यं यावानुपग्रहोऽन्योऽपि संयमिनाम् ॥ ११२॥ नवपुण्यैः प्रतिपत्तिः सप्तगुणसमाहितेन शुद्धेन ।' अपसूनारम्भाणामायाणामिप्यते दानम् ॥ ११॥ . गृहकर्मणापि निचितं कर्म विमार्टि खलु गृहविमुक्तानाम् । अतिथीनां प्रतिपूना रुधिरमलं धावते वारि ॥ ११ ॥ उच्चेोत्रं प्रणतेभोंगो दानादुपासनात्यूग। भक्तेः सुन्दररूपं स्तवनात्कीर्तिस्तपोनिधिषु ॥ ११५॥ क्षितिगतमिव वटवीभ पात्रगतं दानमल्पमपि काले। फलतिच्छायाविभवं बहुफलमिष्टं शरीरमृता.॥११॥ आहारोषधयोरप्युपकरणावासयाश्च दानेन । वैयावृष्यं ब्रुवते चतुरात्मत्वेन चतुरसाः-॥ ११७॥ २६