________________
A
जनसिद्धांतसंग्रह। चन्द्रप्रमं चन्द्रमरीचिगौरं चन्द्र द्वितीयं जगतीव कान्तम् । वंदेऽभिवन्धं महतामृषीन्दं जिनं जितवान्तकषायबन्धम् ॥३६॥ यस्याङ्गलक्ष्मीपरिवेपभिन्नं तमस्तमोरेरिव रश्मिभिन्नम् । ननाश वा बहुमानसं च ध्यानप्रदीपातिशयेन भिन्नम् ॥१७॥ स्वपक्षसोस्थित्यमदावलिप्ता वाकसिंहनादेविमदा बभूवुः । प्रवादिनो यस्य मदादंगण्डा गना यथा केशरिणो निनादैः। ३८॥ यः सर्वलोके परमेष्ठितायाः पदं बभूवादभुतकर्मतेनाः । अनन्तधामाक्षरविश्वचक्षुः समेतदुःखक्षयशासनश्च ।। ३९ ॥ स चन्द्रमा मव्यकुमुदतीनां विपनदोषाप्रकलङ्कलेपः । व्याकोशवाङ्न्यायमयूखमाल: पूयात्पवित्रो भगवान्मनो मे ॥ ४०॥
___ इति चंद्रप्रमजिनस्तोत्रम् । एकान्तदृष्टिप्रतिषेधि तत्त्वं प्रमाणसिद्धं तदतत्स्वभावम् । त्वया प्रणीत सुविधे स्वधाना नैतत्समालीदपदं त्वदन्यैः ।। ४१॥ तदेव च स्यान्न. तदेव च स्यात्तथा प्रतीतेस्तव तत्कथञ्चित् । नात्यन्तमन्यत्वमनन्यता च विघनिषेधस्य च शून्यदोषात् ॥१२॥ नित्यं तदेवदमिति प्रतीतेन नित्यमन्यत्प्रतिपत्तिसिद्धेः। न तबिरुद्धं वहिरन्तरङ्गनिमित्तनैमित्तिकयोगतस्ते ॥ १३ ॥ अनेकमेकं च पदस्य वाच्यं वृक्षा इति प्रत्ययवत्प्रकृत्या। आकाक्षिणः स्यादिति वै निपातो गुणानपेक्षे नियमेऽपवादः ॥१४
गुणप्रधानार्थमिदं हि वाक्यं जिनस्य ते तद्विषतामपथ्यम् । ' ततोऽभिवन्धं जगदीश्वराणां ममापि साघोस्तव पादपद्मम् ॥१५॥
इति मुविधिजिनस्तोत्रम् ।