________________
जैनसिद्धांतसंग्रह।
वंधश्च मोक्षश्च तयोश्च हेतुः बद्धश्च मुक्तश्च फलं च मुक्तः । स्याहादिनो नाथ ! तवैव युक्तं नैकान्तदृष्टस्त्वमतोऽसि शास्ता॥१४ शक्रोऽप्यशक्तस्तव पुण्यकीतः स्तुत्यां प्रवृत्तः किमु मादशोऽज्ञः । तथापि भत्त्या स्तुतपादपद्मो ममार्य ! देयाः शिववातिमुच्चैः ॥१५॥
. इति संभवजिनस्तोत्रम् । गुणामिनन्दादमिनन्दनो भवान् दयावधूं क्षांतिसखीमशिश्रयत् । समाधितन्त्रस्तदुपोपपत्तये द्वयेन नैन्थ्यगुणेन चायुनत् ॥१६॥ मचेतने तत्कृतबन्धनेऽपि च ममेदमित्याभिनिवेशकमहात् । . प्रभंगुरे स्थावरनिश्चयेन च क्षतं जगत्तत्त्वमजिग्रहद्भवान् ॥१७॥ क्षुदादिदुःखप्रतिकारतः स्थितिर्न चेन्द्रियार्थप्रमवाल्पसौख्यतः । ततो गुणो नास्ति च देह देहिनोरितीदमित्थं भगवान् व्यजिज्ञपत् ॥१८ जनोऽतिलोलोऽप्यनुबन्धदोषतो भयादकाविह न प्रवर्तते । इहाप्यमुत्राप्यनुबन्धदोषवित्कथं सुखे संसनतीति चाब्रवीत् ॥१९॥ स चानुवन्धोऽस्यजनस्य तापकृत्तृषोऽभिवृद्धिः सुखतो न च स्थितिः इति प्रभो! लोकहितं यतो मतं ततो भवानेव गतिः सतां मत: २०
इत्यभिनंदनजिनस्तोत्रम् । अन्वर्थसंज्ञः सुमतिर्मनिस्त्वं स्वयं मतं येन सुयुक्तिनीतम् । यतश्च शेषेषु मतेषु नास्ति सर्वक्रियाकारकतत्वमिद्धिः ॥२१॥ अनेकमेकं च तदेव तत्वं भेदान्वयज्ञानमिदं हि सत्यम् । मृषोपचारोऽन्यतरस्य लोपे तच्छेषलोपोऽपि ततोऽनुपाख्यम् ॥२२ सतः कथञ्चित्तदसत्वशक्तिः खे नास्ति पुष्प तरुषु प्रसिद्धम् । सर्वस्वमावच्युतमप्रमाण स्ववाविरुद्ध तव दृष्टितोऽन्यत् ॥२३॥ न सर्वथा नित्यमुदत्यपैति न च क्रियाकारकमत्र युक्तम् । । । नैवासतो जन्म सतो न.नाशो दीपस्वमःपुदलभावतोऽस्ति ॥२॥