________________
। १५५ ) मूलकर्ताऽखिलज्योतिर्मलानो मूलकारणम् । प्राप्तो वागीश्वर: श्रेयाजमायसीतिनिरक्तवा ।।६।। प्रवक्ता वचसामोशो मानिद्विश्व भाववित् । सुतनुत्तनुनिमुक्तः सुगतो हतदुर्नयः ।।७।। श्रीशः घोधितपादाजो वीतभोरभयङ्करः । उत्सन्नदोषो निविघ्नो निश्चलो लोकवत्सलः ॥८॥ लोकोत्तरी लोकपतिलोकचक्षुरपारधीः । घोरघोर्बुद्धसन्मार्ग शुदः सन्तपूतवाक् ।।९।। प्रज्ञापारमितः प्राज्ञो यतिनियमितेन्द्रियः । भदन्तो भद्रकृद्भद्रः कल्पवृक्षो वरप्रदः ॥१०॥ समुन्मूलितकार कर्मकाष्ठाशुशुक्षणिः । कर्मण्यः मंठः प्राशुहयादेविचक्षणः ॥११॥ अनन्तशक्तिरछेद्यस्त्रिपुरारिस्त्रिलोचनः । त्रिनेवस्यम्बकस्यक्षः केवलज्ञानवीक्षणः ॥१२॥ समन्तभद्रः शान्तारिधर्माचार्यो दयानिधिः । सूक्ष्मदर्शी जितानङ्गः कृपालुधर्मदेशकः ।।१३।। शुभंयुः सुखसाद्भूतः पुण्यराशिरनामयः । धर्मपालो जगत्पालो धर्मसाम्राज्यनायकः ॥१४॥ ॥ इति दिग्वासाद्यष्टोत्तरशतम् इत्यष्टाधिकमहस्रनामावली समाप्त ।। धाम्नां पते तवामूनि नामान्यागमकोविदः । समुच्चितान्यनुध्यावन्पुमान्पूतस्मृतिर्भवेत् ॥१॥ गोचरोऽपि गिरामासा त्वमवाग्गोचरो मतः ।