________________
( १५० ॥
महामुनिमहामौनी महाध्यानी महावमः । महाक्षमो महाशीलो महायज्ञो महामखः ।।१।। महाव्रतपतिर्मह्यो महाकातिधरोऽधिपः । महामैत्री मयाऽमेयो महोपायो महोमयः ॥२॥ महाकारुणिको मता महामन्त्रो महामतिः । महानावो महाघोषो महेज्यो महसांपतिः ॥३॥ महाध्वरधरो धुर्यो महौदार्यो महिष्ठवाक् । महात्मा महसांधाम महषिर्महितोदयः ॥४॥ महाक्लेशांकुशः शूरो महाभूतपतिगुरुः । महापराक्रमोऽनन्तो महाक्रोधरिपुर्वशीः ॥५॥ महाभवाब्धिसतारिमहामोहाद्रिसूदनः । महागुणाकरः क्षातो महायोगीश्वरः शमी ॥६॥ महाध्यानपतियाता महाधर्मा महाव्रतः । महाकारिहाऽऽत्मज्ञो महादेवो महेशिता ॥७॥ मर्वक्लेशापहः साधुः सर्वदोषहरो हरः। असंख्येयोऽप्रमेयात्मा शमात्मा प्रशमाकरः ।। सर्वयोगीश्वरोऽचिन्त्यः श्रुतात्मा विष्टरश्रवाः । दातात्मा दमतीर्थेशो योगात्मा ज्ञानसर्वगः ॥६॥ प्रधानामात्मा प्रकृतिः परमः परमोदयः । प्रक्षोरणबन्ध कामारिः क्षेमकृत्क्षेमशासनः ॥१०॥ प्रणवः प्रणयः प्राणः प्रारदः प्रणतेश्वरः। प्रमाणं प्रणिधिदक्षो दक्षिणोध्वर्युरध्वर ॥११॥