________________
। १४८ ।
स्तवनाही हृणकेशो जितजेयः कृतक्रियः ॥२॥ गणाधिपो गरगज्येष्ठो गन्य पुण्यो गरणाप्रणीः । गुणाकरो गुणाम्भोविपनो गुरगनायकः ॥३॥ गुणादरो गुणोच्छेदो निर्गुणः पुण्यगोगुणः । शरण्यः पुण्यवावपूतो वरेण्यः पुण्यनायकः ।।४।। अगण्यः पुण्यधोगुंग्य. पुन्यकृत्पुण्यशासनः । धर्मारामो गुरणग्रामः पुण्यापुण्यनिरोधकः ॥५॥ पापाप्तो विपापात्मा विपाप्मा वोतफल्मषः । निर्द्वन्द्वो निर्मदः शान्तो निर्मोहो निरूपद्रवः ।।६।। निनिमेषो निराहारो निष्क्रियो निरुपप्लवः । निष्कलङ्को निरस्तैना निर्धू ताङ्गो निराश्रवः ॥७॥ विशालो विपुलज्योतिरतुलोऽन्त्यिवैभवः । सुसवृतः सुगुप्तात्मा सुभृत् सुनयतत्त्ववित् ।।८।। एकविद्यो महाविद्यो मुनिः परिवृढः पतिः। धीशो विद्यानिधिः साक्षी विनेता विहतान्तकः ॥६॥ पिता पितामहः पाता पवित्रः पावनी गतिः । त्राता भिषग्घरो वाँ वरदः परमः पुमान् ॥१०॥ कविः पुराणपुरुषो वर्षीयान्वृषभः पुरुः । प्रतिष्ठाप्रसवो हेतुर्भुवनकपितामहः ॥११॥
॥ इति महाशोकध्वजा दिशतम् ।। श्रीवृक्षलक्षणः श्लक्ष्णो लक्षण्यः शुभलक्षरणः । निरक्षः पुण्डरीकाक्ष पुष्कलः पुष्करेक्षणः ॥१॥