________________
( १४३ /
नमस्तेऽनन्त - वीर्याय नमोऽनन्त-सुखात्मने । नमस्तेऽनन्त-लोकाय लोकालोकावलोकिने ।। १८ ।। नमस्तेऽनन्त - दानाय नमस्तेऽनन्त-लब्धये । नमस्तेऽनन्त- भोगाय नमस्तेऽनन्तोषभोगिने नमः परम - योगाय नमस्तुभ्यमयोनये । नमः परम-पूताय नमस्ते परमर्षये ॥ २० ॥ नमः परम-विद्याय नमः पर-मत- च्छिदे ।
१६
नमः परम-तत्त्वाय नमस्ते परमात्मने ॥ २१ ॥ नमः परमरूपाय नमः परमतेजसे । नमः परममार्गाय नमस्ते परमेष्ठिने ।। २२ ।। परमर्द्धिजुषे धाम्ने परमज्योतिषे नमः । नमः पारेतमः प्राप्तधाम्ने परतरात्मने ॥ २३ ॥ नमः क्षीरणकलङ्काय क्षीरणबन्ध नमोऽस्तुते | नमस्ते क्षीरणमोहाय क्षीरणदोषाय ते नमः ॥ २४ ॥ नमः सुगतये तुम्यं शोभनां गतिमीयुषे । नमस्तेऽतींद्रिय-ज्ञान- सुखायानिन्द्रियात्मने ॥ २५ ॥ कायबन्धन निर्मोक्षादकायाय नमोऽस्तु ते । नमस्तुभ्यमयोगाय योगिनामषियोगिने ॥ २६ ॥ श्रवेदाय नमस्तुभ्यमकपायाय ते नमः । नमः परमयोगीन्द्र - वन्दितांघ्रि-द्वयाय ते ॥ २७ ॥ नमः परमविज्ञान नमः परमसंशयः ।
नमः परमरहष्ट-परमार्थाय ते नमः ॥ २८ ॥
ऽ