________________
( ४१ )
संपूर्ण मंडल- शशांक - कला-कलाप -
शुभ्रागुणास्त्रिभुवन तव लघयन्ति । ये संश्रितास्त्रजगदीश्वर ! नाथमेकं,
कस्तान्निवारयति सचरतो यथेष्टम् ||१४||
चित्रं किमन यदि ते त्रिदशांगनाभि
नत मनागपि मनो न विकार-मार्गम् ।
कल्पांत काल - मरुता चलिताचलेन,
कि मंदराद्रिशिखरं चलितं कदाचित् ? ।। १५॥ निघू म तिर पर्वाजत-तैल-पूरः,
कृत्स्न जगत्त्रयमिद प्रकटीकरोषि ।
गम्यो न जातु मरुतां चलिताचलाना,
दीपोsपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥ १६ ॥ मास्तं कदाचिदुपयासि न राहु-गम्यः,
स्पष्टीकरोषि सहसा युगपज्जगति ।
नांभोधरोवर-निरुद्ध-महा-प्रभावः,
सूर्यातिशायि महिमासि मुनीन्द्र ! लोके ॥ १७॥ नित्योदय वलित-मोह-महांधकार,
गम्य न राहु-वदनस्य न वारिदानां । विभ्राजते तव मुखावजमनल्पकांति,
विद्योतयज्जगदपूर्व- शशांक - विम्बम् ॥१८॥
कि शर्वरीषु शशिनाऽह्नि विवस्वता वा ? युष्मन्मुखेंदु दलितेषु तमःसु नाथ ।