________________
L 1
स्वस्त्युच्छल द्विमल-बोध-सुधाप्लवाय, स्वस्ति स्वभाव- परभावविभासकाय, स्वस्ति त्रिलोक- विततै कचिदुद्गमाय, स्वस्ति त्रिकाल सकलायत विस्तृताय ॥। ११॥ द्रव्यस्य शुद्धिमधिगम्य यथानुरूप, भावस्य शुद्धिर्माधिकामधिगतुकामः । श्रालवनानि विविधान्यलयम्ब्य वलगढ़, भूतार्थयज्ञ-पुरुषस्य करोमि यज्ञ । १२ । श्रहंत्पुराण- पुरुषोतम पावनानि वस्तून्यनूनमखिलान्ययमेकएव । श्रस्मिन् ज्वलद्विमल केवल बोधबह्नौ, पुण्य समग्रमहमेकमना जुहोमि ।।१३॥
ॐ ह्री विवियज्ञ - प्रतिज्ञानाय जिनप्रतिमाये पुष्पाजलि क्षिपेत् । श्री वृषभो नः स्वस्ति, स्वस्ति श्री श्रजितः । श्री संभवः स्वस्ति, स्वस्ति श्री श्रभिनन्दनः । श्री सुमतिः स्वस्ति, स्वस्ति श्री पद्मप्रभः । श्री सुपार्श्वः स्वस्ति, स्वस्ति श्री चन्द्रप्रभः । श्री पुष्पदन्तः स्वस्ति, स्वस्ति थी शीतलः । श्री श्रेयासः स्वस्ति, स्वस्ति श्री वासुपूज्यः । श्री विमलः स्वस्ति, स्वस्ति श्री अनन्तः । श्री धर्मः स्वस्ति, स्वस्ति श्री शान्तिनाथः । श्री कुन्युः स्वस्ति, स्वस्ति श्री प्ररनाथः । श्री मल्लिः स्वस्ति स्वस्ति श्री मुनिसुव्रतः । श्री नमिः स्वस्ति, स्वस्ति श्री नेमिनाथः । श्री पार्श्वः स्वस्ति, स्वस्ति श्री वर्द्धमानः ॥ ( पुष्पाजलि क्षेपण करें )