________________
___ 18 ]
Jain Granth Bhandars In Jaipur & Nagaur.
भव्यश्रेरिणमनः प्रमोदसदनं भक्त्यानघं कीर्तितं...... नानासत्पुरुषालिवेष्टनयुतं पुष्यं शुभं पावनम् ॥१८०॥ श्रीवर्द्धमानेन जिनेश्वरेण त्रैलोक्यवंदेन यदुक्तमादौ । ततः परं गौतमसंघकेन गणेश्वरेण प्रथितं जनानां ॥१८॥ ततः क्रमाच्छी रविषेरण नाम्नाऽऽचायण जैनागमको विदेन । सत्काव्य केली सदनेन पृथ्व्यां नीतं प्रसिद्धि चरितं रघोश्च ॥१८२॥ श्री कुन्दकुन्दान्वयो भूपणोऽथ बभूव विद्वान किल पद्मनंदि ।। मुनीश्वरो वादिगजेन्द्रसिंह प्रतापवान भूवलये प्रसिद्धिः ॥१८३॥ तत्पट्टपंकेजविकासभास्वान बभूव निर्ग थंवरः प्रतापी । महाकवित्वादि कलाप्रवीणस्तपोनिधिः श्री सकलादिकीतिः ॥१८४॥ पट्टे तदीये गुणवान मनीपी क्षमानिधानं भूवनादिकीतिः । जीयाच्चिरं भव्य समूह बन्धो नानायती प्रात निपेवणीयः ॥१८५।। जगति भूवनकोतिभूतलख्यातकीर्तिः श्रुतजलनिधिवेत्ताऽनंगमान प्रभेत्ता। विमलगुणनिवासः छिन्नसंसारपाशः स जयति यतिराजः साधुराजीसमाजः ।१८६ स ब्रह्मचारी गुरु पुर्वकोऽस्य भ्राता गुणज्ञोऽस्ति विशुद्ध चित्तः । जिनस्य दासो जिनदासनामा कामारिजेता विदितो धरित्र्यां ॥१८७॥ तेन प्रशस्तं चरितं पवित्रं रामस्य नीत्वा रविषेण सूरेः । समुद्धृतं स्वान्यसुख प्रवोध हेतोश्चिरं नन्दतु भूमिपीठे ॥१८॥ श्रीमज्जिनेश्वर पदांवुजचंचरीकस्तच्छात्र सदगुरुषु भक्ति विघानदक्षः । सार्थाभिवोऽसौ जिनदास नामा दयानिवासो भुवि राजते च ॥१८६॥ न ख्याति पुजाभिमान लोभाद् ग्रन्थं कृतोऽयं प्रतिबोध हेतोः । निजान्ययोः किन्तु हिताय चापि परोपकाराय जिनागमोउक्तः ॥१०॥ जिन प्रसादादिदमेव याचे दुःखक्षयं शाश्वत सौख्य हेतोः । कर्मक्षयं बोध चरित्र लाभं शुमां गतिं चेह न चान्यदेव ॥११॥ यत्कित्रिदत्रस्वरसंधि: जातं पदादिकं चलितं प्रमादात् । क्षमस्व तद्भारति ! तुच्छ वुद्दे ममासु नो मुह्यति कः श्रु तान्धी ॥१६२।। तथा च धीमद्भिरिदं विशोध्य मूनीश्वर निर्मलचित्तयुक्तः ।। कृत्वानुकम्पा मयि जनशास्त्र विशारदैः सर्वकपायमुक्तः ॥१६३॥.. यावन्महीमेरुनगः पृथिव्यां शशी च सूर्यः परमाणवश्च ।। श्रीमज्जिनेन्द्रस्य गिरश्च तावन्नन्दत्विदं. रामचरित्रमार्यम् ॥१६॥ . . रक्षां संघस्य कुर्वन्तु जिनशासन देवताः ।
पालयतोऽखिलं लोकं भव्य सज्जनवत्सलः ॥१६॥ __इति श्रीराम चरित्रे भट्टारक सकलकीतिशिष्य ब्रह्म जिनदास विरचिते वलदेव निर्वाण कथनो नाम त्र्यशीतितमः सर्गः ॥८३॥ .. .. .. .
. ..