SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ 285 Šantenātha Jain Bhandara Cambay चूडामणिगाहा ॥ छ । इयं हि भगवद्गुणोत्कीर्तनार्था । तस्य च निर्जराहेतुतया तपोवन्मंगलता स्फुटैवेति । । अन्त: विषं विनिर्दूय कुवासनामयं व्यचीचरद्य कृपया मदाशये । अचिंत्यवीर्येण सुवासनासुधा नतोऽस्मि तस्मै हरिभद्रसूरये ॥ १ ॥ उत्सूत्रमत्र विवृतं मतिमाद्यदोषागाभीर्यभाजि वचने यदनतकीर्ते. । संसारसागरमनेन तरीतुकामैस्तत्साधुभि कृतकृपैर्मयि शोधनीयम् ॥ २ ॥ तोपाद्विधाय विवृति गिरिदेवतायाः पुण्यानुबंधि कुशलं यदिमा मयाप्तम् । सर्वेऽपि तेन भवतादुपदेशमालाप्रोक्तार्थसाधनपर. खलु जीवलोकः ॥ ३ ॥ उपदेशमालाविवरणं समाप्तम् ॥ छ ॥ कृतिरियं जिनजैमिनिकणभुक्सौगतादिदर्शनवेदिन. सकलग्रंथार्थविन्निपुणस्य श्रीसिद्धमहावर्द्धमानाचार्यस्येति । सिद्धर्पिकृता विवृतिः कथानकैोजिता स्वबोधार्थम् । प्राक्तनमुनीन्द्ररचितैश्चारुभिरुपदेशमालायाः ।। यदविधिनासूत्रोक्तं यच्चन्योक्तं सम्यगिह लिखितम् । निन्द्रमताभिज्ञैस्तच्छोध्यं मर्पणीयं च ।। चदत्र मात्राक्षरविंदुकाना किंचिद्भवेदूनमथाधिकं वा । सर्वं तदार्मम मर्पणीय क्षमाप्रधाना हि भवंति संतः ॥छ । ऽक्कुरजैत्रसिंहस्य .... . .......प्रदीपसिंहेन निपुणेनार्पिता लिपि छ। संवत् १२९१ वर्षे आषाढ शुदि १३ शनौ उपदेशमालीयपुस्तकं लिखितमिति ॥छ।। मंगलं महाश्रीः ॥ छ ॥ श्रीमत्यर्बुदतुंगशैलशिखरच्छायाप्रतिष्ठास्पदे धर्माणाभिधसन्निवेशविषये न्यग्रोधवृक्षो बभौ । यत्शाखाशतसंख्यपत्रवहलच्छायास्वपायाहतं सौख्येनोषितसंघमुख्यशकटश्रेणीशतीपंचकम् ॥ १ ॥ लग्ने कापि समस्तकार्यजनके सप्तग्रहालोकने ज्ञात्वा ज्ञानवशाद् गुरुं..........देवाभिधः ।
SR No.010183
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 02
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1966
Total Pages310
LanguageHindi
ClassificationCatalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy