________________
883
Śântınātha Jain Bhandāra Cambay
गीर्देवताप्रसादितधाष्टान्मंदतरजंतुबोधाय ।
जडबुद्धिरपि विधास्ये विवरणमुपदेशमालायाः ॥ २ ॥ अभिधेयादिशून्यत्वादस्या विवरणकरणमनर्थकमिति चेन्न, तत्सद्भावात्तथा ह्यस्यामुपदेशा अभिधेयास्तदभिधानद्वारेण सत्त्वानुग्रह कर्तुरनंतरप्रयोजनम् । श्रोतुस्तदधिगमात् । द्वयोरपि परमपदावाप्ति. परंपराफलम् । सबंधस्तूपायोपेयरूपस्तत्रोपेयं प्रकरणार्थपरिज्ञानं प्रकरणमुपायोऽतो युक्तमेतद्विवरणकरणमिति । अत्राद्यगाथया शिष्टसमयानुसरणार्थ भावमंगलमाह ॥ छ । जगचूडामणीत्यादि ।। छ । अन्तः--
जुग्गा गाहा ॥ छ ॥ योग्योचिता वैराग्यं विद्यते येषां ते वैराग्यका. सुश्रावका गृह्यन्ते । सुसाधवश्च वैराग्यकास्तेपा परलोकप्रस्थिताना च संयमोन्मुखतया परत्र हिताभ्युद्यतानामित्यर्थ । केषा संविग्नपाक्षिकाणा योग्येति वर्तते । दातव्या पुनरिय बहुश्रुतेभ्यश्च विवेकिभ्य. चशब्दाच्च सुसाधुत्वादिविशेषणेभ्य इति । इह च सूत्रे पाठाना बाहुविध्याद्य एव पर्यालोचयता सभ्यगर्थप्रदः प्रतिभातः स एवास्माभि. पाठो विवृतः, न शेषाः । क्वचित् पुन. सन्निहितसूत्रादर्शषु प्रस्तुतार्थेनाघटमान पाठमवेक्ष्य प्रायोऽयमेव क्वचित् पाठो भविष्यतीत्यूहित स इति ।
विषं विनिर्द्धय कुवासनामयं व्यचीचरद् य. कृपया मदागये । अचिंत्यवीर्येण सुवासनासुधा नतोऽस्मि तस्मै जिनधर्मसूरये ॥ १ ॥ ... उत्सूत्रमत्र विवृतं मतिमाद्यढोपाद् गाभीर्यभाजि वचने यदनतकीर्त । संसारसागरमनेन तरीतुकामैस्तत्साधुभिः कृतकृपैर्मयि शोधनीयम् ॥ २ ॥ तोपाद्विधाय विवृतिं गिरिदेवताया पुण्यानुबधि कुशल यदिमा मयाप्तम् । सर्वोऽपि तेन भवतादुपदेशमालाप्रोक्तार्थसाधनपर खलु जीवलोक ॥३॥छ ।
उपदेशमालाविवरणं समाप्तम् । छ। भगवद्गीर्देवताया निभमात्रदुर्गस्वामिगुरुशिष्यसिद्धर्षिचरणरेणोः सिद्धसाधोः ॥ छ ॥ ग्रंथाग्रं ३५०० ॥ १३८३ वर्षे कार्तिक शुदि १३ शनौ अद्येह श्रीदेवगिरौ साधुराजसीहसुतसाधुतिहुणसिंहेन श्रीमदुपदेशमालालघुवृत्तिपुस्तिका लिखापिता ॥ छ ।
यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥छ॥ॐ ॥ मंगलमस्तु । शुभं भवतु ॥छ ।