________________
274
Catalogue of Paln-Leaf Mss. in the आदिः
॥ नमः श्रीप्रवचनाय ॥ सज्ज्ञानलोचनविलोकितसर्वभावनिःसीमभीमभवकाननदाहदावम् । विश्वार्चितं प्रवरभासुरधर्मरत्नरत्नाकरं जिनवरं प्रयतः प्रणोमि ॥ १ ॥ श्रीधर्मरत्नशास्त्रं बहर्थ स्वल्पशब्दसंदर्भम् ।
स्वपरोपकारहेतोर्विवृणोमि यथाश्रुतं किचित् ॥ २ ॥ अन्त:इति श्रीधर्मरत्नवृत्तिः समाप्ता ॥ छ ।
विष्णोरिव यस्य विभोः पदत्रयी व्यानशे जगन्निखिलम् । सद्धर्मरत्नजलधिः स श्रीवीरो जिनो जयतात् ।। १ ।। कुंदोज्ज्वलकीर्तिभरैः सुरभीकृतसकलविष्टपाभोग. । शतमखशतविनतपदः श्रीगौतमगणधर. पातु ॥ २ ॥ तदनु सुधर्मस्वामी जंबूप्रभवादयो मुनिवरिष्ठाः । श्रुतजलनिधिपारीणा भूयांसः श्रेयसे संतु ॥ ३ ॥ क्रमशश्चैत्रावालकगच्छे कविराजराजिनभसीव । श्रीभुवनचंद्रमुरिर्गुरुरुदियाय प्रवरतेजाः ॥ ४ ॥ तस्य विनेयः प्रशमैकमंदिरं देवभद्रगणिपूज्य. । शुचिसमयकनकनिकषो बभूव भूविदितभूरिगुण. ॥ ५ ॥ तत्पादपद्मभुंगा निस्संगाश्चंग[.. . ]संवेगा । संजनितशुद्धबोधा जगति जगचन्द्रसूरिवरा. ॥ ६ ॥ तेषामुमौ विनेयौ श्रीमान् देवेन्द्रसरि रित्याद्य । श्रीविजयचंद्रसूरिर्द्वितीयकोऽद्वैतकीर्तिभरः ॥ ७ ॥ स्वान्ययोरुपकाराय श्रीमद्देवेंद्रमरिणा। धर्मरत्नस्य टीकेयं सुखबोधा विनिर्ममे ॥ ८ ॥ प्रथमा प्रतिमप्रतिमा विभ्राणो गुरुजनेषु भक्तिभरम् । विद्वान् विद्यानंद. सानंदमना लिलेखास्याः ॥ ९ ॥