________________
220
Catalogue of Palm-Leaf Mss. in the
चंचच्चंचलचित्तवृत्तिकरणग्रामाश्वघातो वभू
__ श्रीचंद्रप्रभसूरिचारुचरितश्चारित्रिणामग्रणीः ॥ ६ ॥ ज्ञानादित्रयरत्नरोहणगिरिः सच्छीलपाथोनिधि
हीरो धीधनसाधुसंहतिपतिः श्रीधर्मधूर्धारकः । स्यात् सिद्धांतहिरण्यघर्षणकृते पट्टः पटु. शुद्धधी
शिष्यो गच्छपतिः प्रतापतरणिः श्रीधर्मघोषप्रभुः ॥ ७ ॥ तच्छिष्यविमलगणिना कृतिना मात्राऽनुजेन शास्त्रम्य । अस्योच्चैर्वृत्तिरियं विहिता साहाय्यत. सुधिया ॥ ८ ॥ निजशिष्यविजयसेनाभिधगणिविहिता द्विधा य. .य्यासु । करुणामतिगीतार्था विशोध्य विस्तारयंत्वेनाम् ॥ ९ ॥ श्रीवटपद्रकपत्तनविहितावासेन चतुरशीत्यधिकैः । एकादशै. शतैर्गतविक्रमकालात्तथा चैत्रे ॥ १० ॥ वदिपक्षचतुर्दश्या विहितेयं वृत्तिरमलबोधाय । स्यात् स्तुत्यार्जितपुन्यं भव्यासुमता ममापीह ।। ११ ॥ या विश्वाशेषवस्तुप्रकटनकरणे भानुतुल्या सुपुंसां ___यस्याः संपर्कमात्रादखिलसुखमलं लीलयाऽऽसादयंति । यामाराध्यातिमूर्खा अपि जननिवहाः पंडिता विश्ववंद्या
जायते ता नमामि त्रिभुवनविनुतां भारती भावतोऽहम् ॥ १२ ॥ यस्या प्राप्य प्रसाद जडमतिविभवेनाशु वृत्ति, प्रशस्ये
दृशा विद्वज्जनानाममलसुमनसा भेददा चित्तवृत्तेः । नानाविद्याप्रपंचप्रगुणगुरुगुणाशेषलब्धः प्रकोशा
जीयाज्जैनी सुशास्त्रप्रथमरुहकृते भारती बीजकल्पा ॥ १३ ॥ यावत् पाथोधयोऽयं सुरगिरिरखिलालोकलोकोदरस्थो
___ यावद् द्वीपोऽथ जंबूस्त्रिभुवनतिलकः पूर्णचंद्राकृतिश्च । यावज्जैनोऽथ धर्मो प्रभवति च शशी भूतल तावदेनां
भव्या शृण्वन्तु श्रव्या विषयविमुखतापादिका बोधिकां च ॥१४॥छ ।