________________
268
Catalogue of Pala-Leaf Mss in the य. शुद्धाशयशुद्धबुद्धिविभवो धारो घिनोत्युद्धवं
धीरं नौमि नमत्सुरासुरगिरोघृष्टाहिविश्वाग्रणीः ।। १ ।। येपामास्यारविंदागमसुपरिमलास्वादमिथ्यालिमाला
मत्ता मूकाऽपि धत्ते मधुरमुखरतामेवमंहिप्रसाट । चंचत्स्वर्गापवर्गप्रभवसुसुखदो देहिना भानवो ये ।
भासते चारुगोभिस्त्रिभुवनमखिलं लीलया कामदाभिः ॥ २ ॥ तेपा परमगुरूणा नत्वा पदपंकजं स्फुटा वक्ष्ये ।
वृत्तिं दर्शननाम्नः शास्त्रस्य हिता च सुखबोधाम् ॥ ३ ॥ इह हि भीमभवाटवीम्रमणभयोद्धान्तमानसस्य नारकतिर्वग्नरामरचतुर्गातगतातिकटुकशारीरिकमानसानेकदुःखविच्छेदचिकीर्षोः । दुष्टपुष्टश्लिष्टातिक्लिष्टाष्टकर्मवनगहननिर्दहनबुद्ध्या अतिशयितनरनरेश्वरखेचरखेचरेश्वरचक्रचक्रवर्तिसुरासुरसमूहनाकिनायकनिरुपमसुखसंदोहदायिविशुद्धसिद्धिसौधमध्याध्यासनावंध्यनिबंधनधर्मसंसाधनधेयाधर्मकृत्येषु प्रवर्त्तमानस्य । सामान्येनातिधर्मलिप्सो । अनादिकालालीनमोहवासनावशगतनानाजनप्रवर्तितागमप्रतिकूलधर्भमा
प्रवाहपतितस्य मिथ्यात्वमोहकर्मक्षयोपशमतया समं सम्यक्सन्मार्गमवगम्य जिनशासनानुवादद्वारेण यथावस्थितमुक्तिमार्गमुपदिदर्शयिपुर्णविकलोकस्यानुग्रहार्थ सर्वथा सन्मार्गामृतशंगीत्यनलशमसुधाप्रपातसमम् । संसारमहामहीरुहमूलभूतानाद्यविद्यावासनावलायातमिथ्यात्वनिर्मूलनसहं शिवमार्गप्रणेतृदेवताविशेषसद्धर्मसन्मार्गसद्गुरुजीवादितत्त्वस्वरूपप्रकाशकं अत्यन्तं करुणापरीतचेताः सुगृहीतनामधेयो भगवान् श्रीचंद्रप्रभसारिदर्शनशुद्धिनामकं शास्त्रं चिकीर्षुमंगलसंबंधाभिधेयप्रयोजनप्रतिपादनप्रतिवद्धमादाविदं गाथाद्वयमाह ॥ छ ।
पत्तभवन्नवतीरं दुहदवनीरं शिवंबतरुकीर । कंचणगोरसरीरं नमिऊण जिणेसरं वीरं ।।
वोच्छं तुच्छमईणं अणुग्गहत्थं समत्थभव्वाणं । . . सम्मत्तस्स सरूवं संखेवेणं निसामेह ।।
तत्र विघ्नविनायकोपशमनाय श्रोतृजनप्रवृत्त्यर्थ शिष्टसमयपरिपालनार्थ तावदादितो मंगलमुपादेयम् । अन्तः
संप्रति पुनरपि शास्त्रगतोपदेशमाह