SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Catalogue of Palm-Leaf Mss. in the गौतमादनु तत्राभूत् श्रुतगंगाहिमाचलः । आद्यो युगप्रधानानां सुधर्मा गणभृद्वरः ॥ २ ॥ इतश्च केवली जंबूः प्रभवः श्रुतकेवली । शय्यंभवो यशोभद्रः संभूतविजयोऽपि च ॥ ३ ॥ भद्रबाहुः स्थूलभद्रस्ततोऽपि दशपूर्विणः । महागिरि-सुहस्त्याद्या वज्रांता बहवोऽभवन् ।। ४ ॥ ततोऽभूद्वज्रसेनर्विज्रशाखा ततोऽपि च ।। गणश्च कोटिकाभिख्य. कुलं चंद्रकुलं तथा ॥ ५ ॥ तत्र क्रमेण चित्रावालकगच्छो बभूव सुविदितः । श्रीभुवनचंद्रसूरिसूत्रामात् भव्यपद्मरविः ॥ ६ ॥ तच्छिष्यरत्नमभवन् भुवनप्रसिद्धाश्चारित्रपात्रमखिलश्रुतपारमाप्ताः । गाभीर्यमुख्यगुणरत्नमहासमुद्राः श्रीदेवभद्रगणिमिश्रसुनामधेयाः ॥ ७ ॥ तत्पादावुजरोलंबा निरालंबा वपुष्यपि । अभूवन् भूरिभावाब्याः श्रीजगच्चन्द्रसूरयः ॥ ८ ॥ देवेन्द्रसूरिसंज्ञस्तेषामार्यो बभूव शिष्यलवः । श्रीविजयचन्द्रसूरिस्तथा द्वितीयो गुणैस्त्वाख्यः ॥ ९ ॥ चक्रे भव्यावबोधाय संप्रदायात्तथाऽऽगमात् । सच्छ्राद्धदिनकृत्यस्य वृत्तिर्देवेन्द्रसूरिभिः ॥ १० ॥ श्रीविजयचन्द्रसूरिप्रमुखैर्विद्वद्गणैर्गुणगरिष्ठ.। स्वपरोपकारनिरतैस्तदैव संशोधिता चेयम् ॥ ११ ॥ प्रथमा प्रतिमप्रतिमप्रतिभाप्रतिहस्तितत्रिंदशसूरि । श्रीहेमकलशनामा सदुपाध्यायो लिलखास्याः ॥ १२ ॥ यच्चेह समयहीनं मतिमाद्या किमपि विरचितं शास्त्रे । भंतव्यं तत्कविभि. कृपापरैर्मयि विशोध्यं च ॥ १३ ॥ यावज्जिनमतमेतज्जगतोऽप्युपकर्तृ विजयते पृथ्व्याम् । तावत्रींदुसहस्री १३००० जीयावृत्तिः कृतानंदा ॥ १४ ॥ छ ।
SR No.010183
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 02
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1966
Total Pages310
LanguageHindi
ClassificationCatalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy