________________
hn
Catalogue of Palm-Leaf Mss. in the तत्राजायत बुद्धिसागरगुरुः प्रद्युम्नमुरिस्तत
स्तच्छिष्योऽजनि देवचंद्रगणभृद् गच्छाग्रणीर्विश्रुतः ॥ १ ॥ श्रीदेवचंद्रस्य मुनीश्वरस्य जातौ सुशिष्यौ जगति प्रसिद्धौ । श्रीमानदेवः प्रथमो गणेश. श्रीपूर्णचंद्रो गणभृत्तथाऽन्यः ॥ २ ॥ यः सैद्धातिकमौलिभूषणमणिविद्वज्जनाग्रेसरः
सतोषोत्तमरत्नराजिततनुः श्रीमानदेवप्रभुः । यञ्चेत. कल्याऽपि नो विलिखित सल्लापलीलावती
__वेल्लल्लोचनचारुवीक्षितशरश्रेणीभिरात्मोद्भव. ॥ ३ ॥ श्रीपूर्णचंद्रसूरेगौर्वादिगोवृंदनाशिनी । ब्रह्मनिष्नाऽपि साऽव्याद्वो या सूत परमं वृषं ॥ ४ ॥ श्रीमानदेवसूरे पट्टेऽजनि मानतुंगसूरिगुरु ।
विधिरिव भवातकारी नरकद्वेषी स विष्णुरिव ॥ ५ ॥ अन्यच्च
धर्कटवंशसुधानिधिचंद्रः श्रेष्ठी गणियाको निस्तंद्रः । तस्य गुणश्रीः समजनि जाया दक्षसुतेव सदैव विमाया ॥ ६ ॥ तस्यांगजैका सुमहत्तरायाः प्रभावतीसंज्ञमहत्तरायाः । पार्थेऽग्रहीत् पंच महाव्रतानि प्रद्युम्नसूरेः सुगुरोः करेण ॥ ७ ॥ जगश्रीरुदयश्रीः श्रीचारित्रश्रीमहत्तरा। क्रमेण तासां सर्वासा पादपद्ममधुव्रता ।। ८ ।। सा निर्मलमतिगणिनी रम्यां श्रीयोगशास्त्रसद्वृत्तेः । द्वैतप्रकाशखंडस्य पुस्तिकां लेखयामास ॥ ९ ॥ श्रीमानतुंगसूरे. पट्टस्थितपद्मदेवसूरीणाम् । ता प्रवचनरसपात्रं प्रददौ पुण्याय पुण्यतराम् ॥ १० ॥ कल्याणाद्रिनृपो धराधरसुता जाया कुरू मंत्रिणौ
वृद्धा वृद्धनगाञ्जनास्तदपरे वक्षारसाराकराः । चद्रादित्यवरौ पदातिभगणाः साम्राज्यमेतत् क्षितौ
यावत्तिष्ठति तावदत्र विबुधैर्वाच्या 'सदा पुस्तिका ॥ ११ ॥