SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ 258 Catalogue of Palmt-Leaf afss. in the ज्ञात्वा येन लघीयसाऽपि सहसा स्वस्थान्तकालं क्षणा दानाय्य व्रतिनः स्वयं तदखिलं कृत्वाऽन्त्यकृत्यं स्फुटम् । त्यक्त्वा स्नेहमशेपमात्मवदनेनोच्चार्य धर्मव्ययं जिग्ये मोहमहामहीपतिरतिप्राज्यप्रभावोऽप्यसौ ॥ २० ॥ आवाल्यादपि येन पूर्णविधिना भक्त्याऽर्चित' श्रीजिन स्तात्पर्यादतिसेविता. सुगुरवोऽभ्यस्तं च शाम्यं परम् । आत्मीयैर्विनयादिभिर्वरगुणैसचन्द्रकालं कली चन्द्राशूज्ज्वलकान्तकीर्तिरतुला स्वल्पदिनेरर्जिताः ॥ २१ ॥ श्रीयोगशास्त्रवृत्तेर्देवधरेणात्मपुत्रसहितेन । निस्सगचित्तमुनिवत् सावद्यारंभरहितेन ॥ २२ ॥ साधुजनजनिततोपं निर्दोपं पुस्तकप्रवरमेतत् । तस्यात्मसुतस्य जगद्देवस्य श्रेयसेऽलेखि ॥ २३ ॥ यद् दोपैरकलंकितं गुणगणैर्युक्तं मनोहारिभि नित्याभ्यासवशेन निवृतिकरं दिव्योक्तसाधुक्रियम् । श्रीभूपालकुमारपालसहितं श्रीहेमचन्द्रप्रभोः कर्मव्याधिविवाधकं विजयता तद् योगशास्त्रं सदा ॥ २४ ॥ सूर्याचन्द्रमसौ यावद् द्योतयन्ति भुवं रुचा । अश्रान्तं पुस्तकं तावत् कोविदैर्वाच्यतामिदम् ॥ २५ ॥ छ ॥ ॐ ॥ स्वस्ति श्रीविक्रमनृपते. संवत् १२५१ वर्षे कार्तिक सुदि १२ शुक्रे रेवतिनक्षत्रे सिद्धयोगे महाराजश्रीभीमदेवविजयिराज्ये अवनिवनिताप्रशस्तकस्तूरिकातिलकायमानलाटदेशालंकारिणि सकलजनमनोहारिणि विविधधार्मिकविराजमाने दर्भवतीस्थाने श्रीमालवंशीय श्रे० साभानंदनेन जगदानंदनेन निर्मलतमसम्यक्त्वधरेण श्रे० देवधरेण सकलधर्मकर्मावहितेन ठ० आभड-नरसिंहादिसुतसाहितेन निजपुत्रजगद्देवश्रेयोनिमित्तं श्रीवटपद्रकपुरप्रसिद्धप्रवुद्ध पं० केशवसुत प० बोसरिहस्तेनापविशेषज्ञचेतश्चमत्कारकारीदमप्रतिमप्रतापश्रीजिनशासनप्रभावकश्रीकुमारपालभूपालविधापितस्य श्रीहेमचन्द्रसूरिरचितस्य श्रीयोगशास्त्रस्य वृत्तिपुस्तकं लिखितमिति । मङ्गलं महाश्रीः । शुभं भवतु लेखकपाठकवाचा का]नामिति ॥ छ । * ॥ छ ।।
SR No.010183
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 02
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1966
Total Pages310
LanguageHindi
ClassificationCatalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy