SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Sāntınātha Jain Bhandāra Cambay 249 तैर्दत्तामुपलभ्य निर्मलकला श्रीधर्मघोषप्रभु- . . . . ___ स्वास्तीव्रतप.प्रतापकलितो जज्ञे ददद्विस्मयम् । नानादृप्तकुतीर्थितारकरुचिच्यासप्रहाणोद्यतो माद्यद्वादिकुशीलकौशिकमदोद्रेकापहारक्षमः ॥ ६ ॥ आदिष्टा जयसिंह सूरिभिरमी चात्मीयशिप्योत्तमा विख्याता जगति क्षमाधरशिरोऽलंकारलीलास्पृशः । पूज्याः शीलगणाहया गणभृतो येऽखंडवृत्तोदया निन्युश्चन्द्र इव प्रकाशपदवी पूर्णामिमां पूर्णिमाम् ॥ ७ ॥ गच्छेऽस्मिन् प्रसृते क्षमानुगगुणैः शाखाभिरभ्युन्नते येषां कुंदसमुज्ज्वलेन यशसा पुष्पायितं सर्वतः । तबंधग्रहणाग्रहैकरसिका भव्यालयोऽहर्निशं । संगीतं प्रथयति सम्मदरसस्यापानतः स्वेच्छया ॥ ८ ॥ चंचच्चन्द्रकुले चरित्रनृपतेः श्रीराजधान्यामिह । प्रासादेषु महाव्रतेषु सुदुरारोहाग्रभागेष्वियम् । येषा कीर्तिरमंदमंदरपरिभ्रातिक्रमोल्लासित- . . . . क्षीराम्भोधिविलोलवीचिरुचिरा नूनं पताकावली ॥ ९ ॥ यद्दीक्षा सुकृतोदयेन कृतिनां दाक्षायणीनायक ज्योत्स्नेव प्रमदं विकाश्य कुमुदं दूरे रजास्यऽस्यति । संतापं हरते गुणौघमनघं दुग्धोदधिं वर्धय त्यस्मात् संवरवीचिसचयवशान्मुक्तात्मलाभो भवेत् ॥ १० ॥ सिंहस्यापि लघोः क्रमेण भविता शौर्य करीन्द्रापहं बालस्यापि रवेर्महः प्रतिदिनं दृष्टं प्रतापावहम् । एवं ज्ञानदृशा विभाव्य वयसि स्वल्पेऽपि तैः श्रीमता . __ येषां शीलगणाभिधैः स्वगुरुभिश्चक्रे पदस्थापना ॥ ११ ॥ तेपा चिरं गच्छपतित्वभाजा श्रीमानतुंगाभिधसूरिराजाम् । शिष्या बभूवुर्गुणदिव्यरत्नरत्नाकरा वृत्तधरा धरित्र्याम् ॥ १२ ॥
SR No.010183
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 02
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1966
Total Pages310
LanguageHindi
ClassificationCatalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy