________________
Šāntınātha Jain Bhandara Cambay
247
हस्ताक्षमालामणिसाम्यभाजः सूत्रानुगानुज्ज्वलपूर्णवृत्तान् । साधूनिमान् प्रापयतु क्षणेन गीर्देवताऽसौ श्रुतसिंधुपारम् ॥ ५ ॥ प्रत्याशं प्रसरत्प्रभापरिगतो यत्पद्महस्तोऽरुणो
यद्दोषापगमं करोति परितस्तत्सत्यमाभासते । आश्चर्य तु मुनीन्दुतारककविज्योति प्रकाशोदयं
धत्ते यत्कुमुद प्रकाश्य सहसा सौरभ्यलक्ष्म्यास्पदम् ।। ६ ।। श्रीमानतुंगसूरीस्तान् जाड्ये सूर्यानुकारिणः । गुरून् निजान् नुमो नित्यं श्रीमतो गणधारिणः ॥ ७ ॥ श्रीगच्छाधिपमानतुंगगुरुभिश्चक्रे परार्थोद्यतै
__ यत्कर्मादिपरार्थसंशयतम.सूर्यप्रभाभासुरम् । तत्त्वज्ञानसुधानिधि प्रकरणं यस्मिन् जयंतीकृत
प्रश्नेषत्तरदानवाक्यरचना श्रीवर्द्धमानप्रभोः ॥ ८ ॥ स्वगुरुबहुमानजलनिधिवेला दानादिरत्नरमणीयाम् । विवृतिं तस्य विधास्ये सिद्धजयंतीकथां प्रथयन् ॥ ९ ॥
तत्राधिकृताभीष्टदेवतानमस्कारेण समुन्नतशिरसा मंदरमंथानुकारेण निर्मथितेऽन्तरायनीरधौ समुल्लसिताभीष्टसिद्धिसुधास्वादित. सुमनसा स्यादजरामरपदोपलंभ इति संवद्धार्थभणितिभंगीगंगातरंगिणीपरिष्वंगपवित्रागतयाऽभिगमनीयताकमनीयता स्यादिति अभिधेयवत्ताव्यक्तिमुक्तावलीव श्रोतृपरिपदो हृदयहारितामात्मन्यादधीतेति फलवत्तया च पक्षपातच्छेकतयाऽऽशुकवीना सहकारवनमिव सानंदप्रवृत्त्यविकलकारणता प्रपद्येतेति यशःसौरभोद्गारसारसौजन्यादिगुणगणाभोजवनप्ररोहरमणीयशिष्टसमयसर प्रतिपालनप्रवणपालिप्रबंधशालिनी चेयं नमस्काराद्यर्थाभिधायिका प्रथमगाथा । यथा
नमिय नमिरामरेसरसिरसेहरमणिमऊहविच्छुरिय । वीरचरणारविंदं जयंतियापगरणं वोच्छं ॥ १ ॥
एवं विणिच्छियट्ठा पहतुट्टाऽभिवंदिरं वीरं । सामन्नमसामन्नं देवाणंद व्व काऊणं ।।